१७ जीर्णोद्धारः

सचलिङ्गादौभग्नेदग्धेवाकार्यः अयंचानादिसिद्धप्रतिष्ठितलिङ्गादौभङ्गादिदोषेपिनकार्यः तत्रतुमहाभिषेकःकार्यः ॥

कर्ताऽमुकदेवस्यजीर्णोद्धारंकरिष्ये इत्युक्त्वानान्दीश्राद्धान्तंकृत्वाचार्यवृत्वापीठेमण्डलदेवता आवाह्यलिङ्गेॐव्यापकेश्वरह्रदयायनमः

ॐव्यापकेश्वरशिरसेस्वाहेत्यादिषडङ्गंकृत्वादेवतान्तरेमूलमन्त्रेनषडङ्गंकृत्वाऽर्चयेत् अघोरेतिमन्त्रमष्टोत्तरशतंजप्त्वाग्निप्रतिष्ठाप्य

अघोरेणघृताक्तसर्षपैःसहस्त्रंहुत्वेन्द्रादिभ्योनाम्नाबलिंदत्त्वाजीर्णदेवं प्रणवेनसंपूज्यसाज्यतिलैर्मण्डलदेवताहोमंकृत्वाप्रार्थयेत्

जीर्णभग्नमिदंचैवसर्वदोषावहंनृणाम् । अस्योद्धारेकृतेशान्तिःशास्त्रेस्मिन्कथितात्वया १ जीर्णोद्धारविधानंचनृपराष्ट्राहितावहम् ।

तदधस्तिष्ठतांदेवप्रहरामितवाज्ञया २ क्षीराज्यमधुदूर्वासमिद्भिर्देवमन्त्रेणाष्टोत्तरशतंहुत्वातिलैःसहस्त्रंहुत्वापायसेनशतंहुत्वालिङ्गंप्रार्थयेत्

लिङ्गरूपसमागत्ययेनेदंसमधिष्ठितम् । यायास्त्वं संमितंस्थानंसंत्यज्यैवशिवाज्ञया १ अत्रस्थानेचयाविद्यासर्वविद्येश्वरैर्युता ।

शिवेनसहसंतिष्ठेतिमन्त्रितजलेनाभिषिचविसर्जयेत् अस्त्रमन्त्रितेनखनित्रेणखात्वालिङ्गमादायवामदेवमन्त्रेणनद्यादौक्षिपेत्

मूर्तिप्रणवेनक्षिपेत् दारुजं मधुनाभ्यज्याघोरेणदहेत् हेमादिमयंयोग्यंकृत्वातत्रैवस्थापयेत्

ततःशान्त्यर्थमघोरेणघृतक्षीरमध्वक्तैस्तिलैःसहस्त्रंहुत्वाप्रार्थयेत् भगवन्भूतभव्येशलोकनाथजगत्पते ।

जीर्णलिङ्गसमुद्धारःकृतस्तवाज्ञयामया १ अग्निनादारुजंदग्धंक्षिप्तंशैलदिकंजले ।

प्रायश्चित्तायदेवेश अघोरास्त्रेणतर्पितम् २ ज्ञानतोऽज्ञानतोवापियाथोक्तंनकृतंयदि ।

तत्सर्वं पूर्णमेवास्तुत्वत्प्रसादान्महेश्वर ३ अथयजमानःप्रार्थयेत् गोविप्रशिल्पिभूपानामाचार्यस्यचयज्वनः ।

प्रतिमाशिवलिङ्गेप्रासादकलशादिभङ्गे स्वामिनोमरणंभवेत तत्र शान्तिः कुण्डंकृत्वाविधानेनततोहोमंसमाचरेत् ।

चरुंचयमदैवत्यंसाधयित्वा विधानतः १ दधिक्षौद्रघृताक्तानामश्वत्थसमिधांततः ।

जुहुयादष्ठशतंप्राज्ञ इमारुद्रेतिमन्त्रवित् २ माषैर्मुद्गैस्तिलैश्चैवघृतेनमधुनापिच ।

एभिःपञ्चसहस्त्राणिशक्तिबीजेनहोमयेत् ३ शक्तिबीजं र्‍हीबीजंभूमिधेनुमनङ्वाहंस्वर्णधान्यंसदक्षिणम् ।

दत्त्वाथपञ्चगव्येनस्नायाद्देवालयेद्विजः ४ बलिंदद्यद्यमायाथकृसरैःपायसैस्तथा ।

ईशानायबलिंदत्त्वाकृतकृत्योभवेन्नरः ५ अत्रमूलं कमलाकरे ॥