१५ पुनःप्रतिष्ठाः

अथपुनःप्रतिष्ठा मद्यचाण्डालस्पृष्टावह्निदग्धाविप्ररक्तदूषिताशवपापिस्पृष्टाचप्रतिमापुनः

संस्कार्या खण्डितेस्फुटितेस्थानभ्रंशेपूजनाभावेऽश्वगर्दभादिस्पर्शेपतितरजस्वलाचोरैःस्पर्शेच

पुनःप्रतिष्ठा खण्डितांभग्नांविधिनोद्धृत्यान्यांस्थाप्य अर्चायाभङ्गचौर्यादौताद्दिने उपवासः

ताम्रादिधातुमूर्तीनांचोरचाण्डालादिस्पर्शेताम्रादिधातूक्तशुद्धिंकृत्वापुनःप्रतिष्ठा पूर्वप्रतिष्ठितस्या

बुद्धिपूर्वकमेकरात्रमेकमासंद्विमांसवार्चनादिविच्छेदेशूद्ररजस्वलाद्युपस्पर्शनेवा

जलाधिवासंकृत्वाकलशेनस्नपयेत् ततः पञ्चगव्येनस्नपयित्वाऽष्टसहस्त्रमष्टशतमष्टाविंशतिसंख्यंवाकलशैः

शुद्धोदकेनपुरुशसूक्तेनस्नपयेत् गन्धपुष्पादिनापूजयित्वागुडौदनंनिवेदयेदितिशुद्धिः ॥

बुद्धिपूर्वपूजनविच्छेदेशशूद्रस्पर्शादौचपुनःप्रतिष्ठयैवशुद्धिः अन्येतु एकाहपूजाविहतौकुर्याद्विगुणमर्चनम् ।

द्विरात्रेतुमहापूजांसंप्रोक्षणमतःपरम् १ मासादूर्ध्वपूजाविहतौपुनःप्रतिष्ठाप्रोक्षणविधिर्वाकार्यत्याहुः

पुनःप्रतिष्ठादिमलमासशुक्रास्तादावपिकार्यम्

देवालयवापीकूपतडागभेदने आरामसेतुसभाभङ्गे इदंविष्णुर्मानस्तोकेविष्णोःकर्माणिपादोस्येतिचतस्त्र

आज्याहुतीर्हुत्वाब्राह्मणान्‌भोजयेदिति ॥