१३ आचार्यः

अथाचार्यःकर्तावालिङ्गमर्चावा भूःपुरुषमावाहयामि भुवःपुरुषमा० स्वःपुरुष० भुर्भुवःस्वःपुरुष०

इत्यावाह्य प्रणवेनासनंदत्वा दुर्वाश्यामाकविष्णुक्रान्तापद्ममिश्रपाद्य्म

ॐ इमा आपःशिवतमाःपूताःपूततमामेध्यामेध्यतमा अमृता अमृतरसाः

पाद्यास्ताजुषतांप्रतिगृह्यतांप्रतिगृह्णातुभगवानमहाविष्णुर्विष्णवेनम इति पाद्यम्

भगवानमहादेवोरुद्रायनम इति लिङ्गे एवं देवतांतरेषूह्यम् इमा आपःशिव०

आचमनीयास्ताजुषतांप्रतिगृह्य० इमा आ० अर्घ्यास्ता इत्यर्घ्यम् पञ्चामृतस्नानम्

देवं मन्त्रैःसंस्नाप्य इदंविष्णुरितिविष्णौ नमो अस्तुनीलग्रीवायेतिलिङ्गे

कङ्कणंविसृज्यवस्त्रंयज्ञोपवीतंचदत्वा इमेगन्धाःशुभादिव्याःसर्वगन्धैरलंकृताः ।

पूताब्रह्मपवित्रेण पूताः सूर्यस्यरश्मिभिः १ पूता इत्यादिपूर्ववदितिगन्धम् इमेमाल्याःशुभादिव्याः सर्वमाल्यैरलंकृताः ।

पूता इत्यादि इति मालाः । इमेपुष्पा इति पुष्पाणि । वनस्पतिरसोद्भुतो० धूपोयंप्रतिगृह्यतां ।

प्रतिगृह्णातुभगवानित्यादिज्योतिःशुक्रं चतेजश्चदेवानांसततंप्रियम् । भास्करःसर्वभूतानांदीपो० तां प्रतिगृह्नातु

भगवानितिदीपंदत्वाविष्णौसंकर्षणादिद्वादशनामभिः

पुष्पाणिसमर्प्यतैरेवतर्पणंकृत्वापायसगुडौदनचित्रौदनानिपवित्रंतेविवतमितिनिवेद्यसंकर्षणादिनामभिर्द्वादश

गृहसिद्धान्नक्रुसराहुतीर्हुत्वा कृसरेणैव शार्ङ्गिणे० श्रियै० सरस्वत्यै० विष्णवे० इति हुत्वा विष्णोर्नुकं०

तद्स्यप्रियम० प्रतद्विष्णु० परोमात्रया० विचक्रमे० त्रिर्देवःपृथिवीं० इति मंत्रैः

षट्‌जुहुयात् लिङ्गेतुदीपान्तंकृत्वाभवायदेवाय० शर्वायदेवाय० ईशानायदेवाय० पशुपतयेदेवा० रुद्रायदेवा० उग्रायदेवाय० भीमायदेवाय०

महतेदेवायनम इति पुष्पाणिदत्वातैरेवतर्पणंकृत्वापवित्रंते इति पायसंगुडौदनंचनिवेद्यभवायदेवायस्वाहेत्याद्यष्टभिःकृसरंजुहुयात्

तिलभिश्रौदनः कृसरः भवस्यदेवस्यपत्न्यैस्वाहेत्याद्यष्टभिर्गुडौदनंहुत्वाभवस्यदेवस्यसुतायस्वाहेत्याद्यष्टभिर्हरिद्रौदनंहुत्वा

त्र्यम्बकं० मानोमहान्तं० मानस्तोके० आरात्ते० विकिरिद० सहस्त्राणिसहस्त्र० इति द्वादश ऋचः एतैःकृसरंहुत्वा शिवाय०

शंकराय० सहमानाय० शितिकण्ठाय० कपर्दिने० ताम्राय० अरुणाय० अपगुरमाणाय० हिरण्यबाहवे० सस्पिञ्जराय०

बभ्लुशाय० हिरण्यायेतिद्वादशनामभिर्जुहुयात् स्विष्टकृदादिहोमशेषंसमाप्यपूर्वोक्तसर्वहविर्भिर्विष्णवेलिङ्गायवाबलिंदद्यात्

मन्त्रस्तुत्वामेकामाद्यंपुरुशंपुरातनंनारायणंविश्वसृजंयजामहे ।

त्वमेवयज्ञोविहितोविधेयस्त्वमानात्मनात्मन्प्रतिगृह्णीष्वहव्यम् १ लिङ्गेतुनारायणपदेरुद्रंशिवमिति वदेत्

अश्वत्थपर्णेभुर्भुवःस्वरोमितिहुतशेषंनिधायप्रदक्षिणीकृत्य विश्वभुजे सर्वभुजे आत्मनेपरमात्मनेनम

इति नत्वाचार्यायद्वा दशतिस्त्र एकांवागांदत्वा ऋत्विग्भ्योदक्षिणांदत्वाशतंद्वादशवाविप्रान्भोजयेदिति

प्रासादेनूतनेजलाशयोक्तप्रतिष्ठाविधिःकार्यः तत्रगोरुत्तारणपात्रीप्रक्षेपादिनकुर्यात् वारुणहोमस्थाने

वास्तुहोमः इति स्थिरार्चाचलार्चयोःप्रतिष्ठाप्रयोगः ॥