१२ स्थिरचलार्चयोःसाधारणःप्रयोगः

अथप्रायःस्थिरचलार्चयोःसाधारणःप्रयोगः प्रतिष्ठाङ्गंपरेद्युर्होमंकरिष्य

इति संकल्प्यचक्षुषी आज्येनेत्यन्तेस्थाप्यदेवं तन्मन्त्रेणघृतपक्वव्रीहिचरुणादशाहु

तिभिरग्निसोमंधन्वन्तरिंकुहूमनुमतिंप्रजापतिंपरमेष्ठिनंब्रह्माणमग्निं

सोमं अग्निमन्नादं अग्निमन्नपतिप्रजापतिविश्वान्देवानसर्वान्देवानग्निस्विष्टकृतं

पूजाङ्गहोमेविष्णुश्चेत्संकर्षणादिद्वादशदेवताःशार्ङ्गिणंश्रियंसरस्वतीविष्णुंकृसरेणैकैकयाहुत्याविष्णुंषड्वारंकृसरेण

शिवश्चेद्भवं शर्व ईशानंपशुपतिरुद्रमुग्रंभीमंमहान्तकृसरेणैकैकया० भवस्यदेवस्यपत्नीमित्याद्यष्टौगुडौदनेनैकैकया०

भवस्यदेवस्यसुतमित्यादि८ हरिद्रौदनेन एकै०

रुद्रंसप्तदशवारंशिवं शंकरंसहमानंशितिकण्ठंकपर्दिनंताम्रमरुणमपगुरमाणहिरण्यबाहुंसस्पिंजरंबभ्लुशंहिरण्यमेताःकृसरेणैकैकया०

शेषेणस्विष्टकृतमित्यादि शूर्पेतूष्णींस्थाप्यदेवतायै

चतुर्मुष्टिनग्न्यादिषोडशदेवताभ्योनाम्नाचतुश्चतुर्मुष्टीन्निरूप्यतथैवप्रोक्ष्यसघृतजलेश्रपयित्वास्रुच्यावदान

धर्मेणस्थाप्यदेवमंत्रेणदशाहुतिर्हुत्वानामभिर्जुहुयात अग्नयेस्वाहा १ सोमाय० २ धन्वन्तरये० ३ कुह्वै० ४

अनुमत्यै० ५ प्रजापतये० ६ परमेष्ठिने० ७ ब्रह्मणे० ८ अग्नये० ९ सोमाय० १० अग्नयेऽन्नादाय० ११

अग्नयेऽन्नपतये० १२ प्रजापतये० १३ विश्वेभ्योदेवेभ्य० १४ सर्वेभ्योदेवेभ्यः० १५ भूर्भुवःस्वरग्नयेस्विष्टकृतेस्वाहा १६

इति सप्तते अग्नेसमिधःसप्तजिह्वाःसप्त ऋषयःसप्तधामप्रियाणि सप्तहोत्राःसप्तधात्वायजन्तिसप्तयोनीरापृनस्वाघृतेन

पुनस्त्वादित्यारुद्रावसवः समिन्धतांपुनर्ब्रह्माणोवसुनीथयज्ञैः घृतेनत्वं तन्वं वर्धयस्वसत्याः सन्तुयजमानस्यकामाः

इति मंत्राभ्यांपूर्णाहुतिंकृत्वाचार्योया ओषधीरितिपुष्पफलसर्वौषधीः समर्प्यसंपातोदकं

ताम्रपात्रे आदायदेवमंत्रेणशतवारमभिमंत्र्यतेनदेवशिरसिसिञ्चेत् तत उत्तिष्ठब्रह्मण इति देवमुत्थाप्यविश्वतश्चक्षुरित्युपतिष्ठेत्

एते उत्थापनोपस्थाने चलार्चायामेव देवं ध्यात्वाजपेत् ब्रह्मणेनमः विष्णवेनमः रुद्राय० इंद्रादीनष्टौ० ८ वसुभ्यो० रुद्रेभ्यो०

आदित्येभ्यो० अश्विभ्यां० मरुद्भ्यो० कुबेराय० गङ्गादिमहानदीभ्यो० अग्नीषोमाभ्यां० इन्द्राग्निभ्यां० द्यावापृथिवीभ्यां०

धन्वन्तरये० सर्वेशाय० विश्वेभ्योदेवेभ्यो० ब्रह्मण इति ततःसंपातोदकेनयजमानाभिषेकः

देवं ध्यात्वाप्रतितिष्ठपरमेश्वरेतिपुष्पाञ्जलिंदत्वासच्चिदानन्दंब्रह्मैवभक्तानुग्रहायगृहीतविग्रहंस्वायुधाढ्यंनिजवाहनाद्युपेतंनिजह्रत्कमलेऽ

वस्थितंसर्वलोकसाक्षिणमणीयांसंपरमेष्ठ्यसिपरमांश्रियंगमयेतिमंत्रेण

पुष्पाञ्जलावागतंविभाव्यार्चायांविन्यस्यप्राणप्रतिष्ठांकुर्यात् यथा अस्यश्री प्राणप्रतिष्ठामंत्रस्य

ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुःसामानिच्छन्दांसि क्रियामयवपुःप्राणाख्यादेवता आंबीजं क्रौशक्तिः

प्राणप्रतिष्ठायांविनियोगः ब्रह्मविष्णुरुद्र ऋषिभ्योनमः शिरसि ऋग्यजुःसामच्छन्दोभ्यो० मुखे

प्राणाख्यदेवतायै० ह्रदि आंबीजाय० गुह्ये क्रौशक्त्यै० पादयोः ॐकंखंगंघंङं अंपृथिव्यप्तेजोवाय्वाकाशात्मने आंह्रदयाय०

ॐचंछंजंझंञं इं शब्दस्पर्शरूपरसगन्धात्मने ईशिरसेस्वाहा ॐटंठंडंढंणं उंश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊंशिखायैवषट्‌

ॐतंथंदंधंनं एंवाक्पाणिपादपायूपस्थात्मने ऐंकवचायहुं ॐपंफंबंभंमं ॐवचनादानविहरणोत्सर्गानन्दात्मने औनेत्रत्रयायवौषट्‌

ॐयंरंलंवं शंषंसंहंक्षं अं मनोबुद्ध्यहंकारचित्तात्मने अः अस्त्रायफट्‌ एवमात्मनिदेवेचकृत्वादेवं स्पृष्ट्वाजपेत

ॐ आंर्‍हीक्रौयंरंलंवं शंषंसंहंसः देवस्यप्राणा इहप्राणाः ॐ आंर्‍हीं० हंसः देवस्यजीव इहस्थितः ॐ आंर्‍हीं० हंसः

देवस्यसर्वेन्द्रियाणि ॐ आंर्‍हीं० हंसः देवस्यवाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्यस्वस्तयेसुखेनसुचिरंतिष्ठन्तु स्वाहा

अर्चाह्रद्यङ्गुष्ठंदत्वाजपेत् अस्यैप्राणाःप्रतिष्ठन्तु अस्यैप्राणाःक्षरन्तुच अस्यैदेवत्वमर्चायैमामहेतिचकञ्चन १

प्रणवेनसंरुध्यसजीवं ध्यात्वाध्रुवाद्यौरितित्यृचंजप्त्वाकर्णेगायत्रीदेवमत्रंचजप्त्वा पुरुषसूक्तेनोपस्थायपादनाभिशिरःस्पृष्ट्वा

इहैवैधीतित्रिर्जपेत् ततःकर्ता स्वागतं देवदेवेशमद्भाग्यात्त्वमिहागतः । प्राकृतंत्वमदृष्ट्वामांबालवत्परिपालय १

धर्मार्थकामसिद्ध्यर्थंस्थिरोभवशिवायनः । सान्निध्यंतुसदादेवस्वार्चायांपरिकल्पय २ यावच्चन्द्रावनीसूर्यास्तिष्ठन्त्यप्रतिघातिनः ।

तावत्त्वयाऽवदेवेशस्थेयंभक्तानुकम्पया ३ भगवन्देवदेवेशत्वं पितासर्वदेहिनाम् ।

येनरूपेणभगवं स्त्वयाव्याप्तंचराचरम् ४ तेनरूपेणदेवेशस्वार्चायांसन्निधोभव । इति नमेत् ॥