अथस्थिरार्चायांक्रमोविशेषश्च संकल्पादिजलाधिवासान्तंकृत्वास्वादेवं नत्वास्वागतंदेवदेवेशेत्यादि
प्रार्थनोत्थापनाग्न्युत्तारणादिनेत्रोन्मीलनान्तंपूर्ववत्
तत्रस्थिरेशिवलिङ्गेस्वर्णसूच्यागन्धेनॐनमोभगवतेरुद्रायहिरण्यरेतसेपरायपरमात्मने
विश्वरूपायोमाप्रियायनम इत्यङ्त्वा अञ्जनादिनाञ्जयेदिति नेत्रोन्मीलनेलिङ्गेविशेषः
ततःसूक्तस्तुत्यादिमण्डलदेवतास्थापनान्तम् ततोमण्डलेमूर्तिनिवेशस्ततः
शय्यायांदेवतारोहणंततःस्तुःपूर्वोक्तन्यासाःततः शय्यायांदेवशयनम् ततोग्निस्थापनादि
पुर्वोक्तान्वाधानेविष्णौ नारायणंषोडशाज्याहुतिभिः शिवश्चेत् यात इषुःद्रापेसहस्त्राणीत्यनुवाकस्थ ऋग्भी
रुद्रमाज्येनेतिप्रधानोत्तरमूह इति विशेषः लोकपालमूर्तिमूर्तिपतिहोमान्तंपूर्ववत्
स्थाप्यदेवताहोमेनैवारश्चरुर्नास्तिसप्तैवहवींषि ततश्चविष्णोः
स्थिरार्चायांपूर्वोक्तसमित्तिलाज्यहोमोत्तरंपुरुषसूक्तेनप्रत्यृचमाज्यंहुत्वा इदंविष्णुरितिपादौस्पष्ट्वा
पुनस्ता एवहुत्वा अतोदेवेतिशिरःस्पृष्ट्वापुनस्ता एवहुत्वापुरुषसूक्तेनसर्वाङ्गस्पृशेत् स्थिरंलिङ्गचेत्समिदाज्यतिलहोमान्ते
यात इषु इत्यनुवाकान्तेनद्रापे इति सहस्त्राणीत्यनुवाकाभ्यांचप्रत्यृचमाज्यं हुत्वासर्वोवैरुद्र इति मूलंस्पृशेत्
पुनस्ता एवहुत्वाकद्रुद्रायेतिमध्यं पुनस्ता एवहुत्वानमोहिरण्यबाहव इत्यग्रंस्पृशेत्
पुनस्ता एवहुत्वासर्वरुद्रेणसर्वाङ्गस्पृशेत् इत्यधिवासनेविशेषः ॥
परेद्युःपीठिकांस्नापयित्वामहीमूष्वित्यावाह्य अदितिर्द्यौरितिस्तुत्वार्हींनम
इति संपूज्य तेनैवपूर्णाहुति हुत्वा उत्तिष्ठब्रह्मण
इति देवमुत्थाप्यपुष्पाञ्जलिंदत्वापुरुषसूक्तेनस्तुत्वा उदुत्यमित्युत्थाप्यकनिक्रददितिसूक्तेनविष्णुं
सद्योजातमितिपञ्चानुवाकैर्लिङ्गंगृहंप्रवेश्य पीठिकायामिन्द्रादिनामभिरष्टरत्नानिक्षिप्त्वासप्तधान्यरौप्यमनःशिलाःक्षिप्त्वा
पायसेनसंलिप्यप्रणवेनाङ्गन्यासंकृत्वासुवर्णशलाकामन्तरितांकृत्वासुलग्नेप्रतितिष्ठपरमेश्वरेति उक्त्वाऽतोदेवेतिविष्णुंरुद्रेनलिंगंचस्थापयेत्
ततश्चरुहोमप्राणप्रतिष्ठादि इति स्थिरार्चायामधिवासनेपरेद्युःकृत्येचविशेषोऽन्यत्सर्वमुक्तवक्ष्यमाणचलार्चावदेव ॥
अथ चलप्रतिष्ठायामधिवासनान्तेपरेद्युरेकाहपक्षेसद्योवा उत्तिष्ठब्रह्मण इति देवमुत्थाप्यपुरुषसूक्तोत्तरनारायणाभ्यांस्तुयात ॥