एवमेवद्वितीयपर्यायेणहुत्वादेवस्यनाभिस्पृशेत् एवं तृतीयपर्यायेणहुत्वाशिरःस्पृशेत
प्रतिपर्यायंसंपाताभिषेकः एकपर्याये आहुतिसंख्या पलाशसमिधः १९२ उदुंम्बर १९२
अश्वत्थ. १९२ शमी. १९२ अपामार्ग. १९२ आज्यम १९२ तिलाः १९२
स्थाप्यदेवस्याष्टाविंशतिपक्षेसमित्पञ्चकं १४० चर्वाज्यतिलाः ८४ अनुवाक २०
मिलिताः १५८८ पर्यायत्रये ४७६४ एवं हुत्वार्चाशोधयेत् देवं नत्वा स्वागतंदेवदेवेशविश्वरूपनमोस्तुते ।
शुद्धेपित्वदधिष्ठानेशुद्धिकुर्मःसहस्वताम् १ इति प्रार्थ्य उत्तिष्ठब्रह्मणस्पत
इति सर्त्विगुत्थाप्याग्न्युत्तारणंकुर्यात् अग्निःसप्तिमिति सूक्तमग्निपदहीनंपठित्वातत्सहितंपुनःपठेत्
एवमष्टशतमष्टाविंशतिवारंवापठन्जलंपातयेत् ततोर्चाद्वादशवारंमृदाजलेनचप्रक्षाल्य मन्त्रैःपञ्चगव्यंकृत्वा
पयःपृथिव्यांपय ओषधीषुपयोदिव्यन्तरिक्षेपयोधाः । पयस्वतीःप्रदिशःसन्तु मह्यम् १
आवोराजानमितिचसंस्नाप्य आप्यायस्वेतिपञ्चमंत्रैःपञ्चामृतेनसंस्नाप्य लिङ्गचेन्नमस्तेरुद्र
इत्यष्टाभिःसंस्नाप्यघृताभ्यङ्गमुद्वर्तनमुष्णोदकेनक्षालनंचकृत्वागन्धंदत्वासंपातोदकैरभिषिच्यसपल्लवैश्चतुर्भिःकुम्भैःक्रमेणापोहिष्ठा०
योवः० तस्मा० आकलशेषु० इति संस्नाप्यसमुद्रज्येष्ठेतिचतसृभिराकलशेष्वितिचमिलितचतुःकुम्भैःसंस्नाप्य
औदुम्बरादिपीठेऽर्चामुपवेश्यपरितोऽष्टदिक्षुसजलकुम्भेषुगन्धपुष्पदूर्वाःक्षिस्वाद्यकुम्भेसप्तमृदः
द्वितीयेपुष्करपर्णशमीविकङ्कताश्मन्तकत्वचःपल्लवांश्च तृतीये सप्तधान्यानि चतुर्थेपञ्चरत्नानि
पञ्चमेफलपुष्पाणि षष्ठेकुशदूर्वालोचनाः सप्तमेसंपातोदकम् अष्टमेसर्वौषधीःक्षिप्त्वा क्रमेणापोहिष्ठेतित्रिभिः
हिरण्यवर्णाःशुचय इति चतुर्भिः
पवमानानुवाकेनचाभिषिच्य एककुम्भेशमीपलाशवटखदिरबिल्वाश्वत्थविकङ्कतपनसाम्रशिरीषोदुम्बराणांपल्लवानकषायांश्चक्षिप्त्वाऽश्वत्थेव
इत्यभिषिच्यपञ्चरत्नोदकेनहिरण्यवर्णाःशुचय इति संस्नाप्यवाससीदत्वोपरिवितानंबध्नन्तिकेचित् ॥