०६ सिन्ध्वनुसारेणदेवप्रतिष्ठाप्रयोगः

यजमानोद्वादशादिहस्तंमण्डपंकृत्वा

आग्नेयेपूर्वतोवाहस्तमात्रंकुण्डंस्थण्डिलंवाकृत्वामध्येवेदींतदुपरिसर्वतोभद्रंग्रहचिकीर्षायांपूर्वतः

ईशान्यांवाग्रहवेदीप्रासादसंस्कारेमण्डपसंस्कारे वाचिकीर्षितेनै ऋतेवास्तुपीठंकृत्वा

अस्यांमूर्तौलिङ्गेवादेवतासान्निध्यार्थदीर्घार्युलक्ष्मीसर्वकामसमृद्ध्यक्षय्यसुखकामोऽमुकदेवमूर्तिप्रतिष्ठांकरिष्ये

इति संकल्प्य स्वस्तिवाचनादिश्राद्धान्ते आचार्यवृत्वाष्टौचतुरोवा ऋत्विजोवृत्वापूजयेत्

आचार्योयदत्रेतिसर्षपानविकीर्यापोहिष्ठेतिकुशोदकैर्भूमिप्रोक्ष्य

देवा आयान्तुयातुधाना अपयान्तुविष्णोदेवयजनंरक्षस्वेतिभूमोप्रादेशंकृत्वामंडपप्रतिष्ठांकृत्वानकृत्वामूर्तिः

पञ्चगव्यहिरण्ययवदूर्वाश्चत्थपलाशपर्णान्युदकुम्भेप्रक्षिप्यताभिरद्भिरापोहिष्ठेतितिसृभिः

हिरण्यवर्णाःशुचयःपावकायासुजातःकश्यपोयास्विन्द्रः ।

अग्नियागर्भदधिरेविरूपास्तान आपःशस्योनाभवन्तु १ यासा राजावरुणोयातिमध्येसत्यानृते अवपश्यंजनानाम् ।

मधुश्चुतःशुचयोयाःपावकास्ता० २ यासांदेवादिविकृण्वन्तिभक्षंया अन्तरिक्षेबहुधाभवन्ति ।

याःपृथिवीपयसोन्दन्तिशुक्रास्तान० ३ शिवेनमाचक्षुषापश्यतापःशिवयातनुवोपस्पृशतत्वचंमे ।

सर्वा अग्नीरप्सुषदोहुवेवोमयिवं र्चोबलमोजोनिधत्त ४ पवमानःसुवर्जनः पवित्रेणविचर्षणिः

यःपोतासपुनातुमा पुनन्तुमादेवजनाः पुनन्तुमनवोधिया पुनन्तुविश्व आयवः जातवेदःपवित्रवत

पवित्रेणपुनाहिमा शुक्रेनदेवदीद्यत् अग्नेक्रत्वाक्रतूरनु १ यत्तेपवित्रमर्चिषि अग्नेविततमंतरा

ब्रह्मतेनपुनीमहे उभाभ्यांदेवसवितः पवित्रेणसवेनच इदंब्रह्मपुनीमहे वैश्वदेवीपुनतीदेव्यागात्

यस्यैबह्वीस्तनुवोवीतपृष्ठाः तयामदंतःसधमाद्येषु वय स्यामपतयोरयीणाम् २ वैश्वानरोरश्मिभिर्मापुनातु

वातःप्राणेनेषिरोमयोभूः द्यावापृथिवीपयसापयोभिः ऋतावरीयज्ञियेमापुनिताम् बृहद्भिःसवितस्तृभिः

वर्षिष्ठैर्देवमन्मभिः अग्नेदक्षैःपुनाहिमा येनदेवा अपुनत येनापोदिव्यंकशः तेनदिव्येनब्रह्मणा ३

इदंब्रह्मपुनीमहे यःपावमानीरध्येति ऋषिभिःसंभृत रसम् सर्वसपूतमश्नाति स्वदितंमातरिश्वना

पावमानीर्यो अध्येति ऋषिभिः सभृत रसम् तस्मैसरस्वतीदुहे क्षीरसर्पिर्मधूदकम् पावमानीःस्वस्त्ययनीः ४

सुदुघाहिपयस्वतीः ऋषिभिःसंभृतोरसः ब्राह्मणेष्वमृतहितं पावमानीदर्शितंनुः इमंलोकमथो अमुम् कामान्समर्धयंतुनः

देवीर्देवैःसमाभृताः पावमानीःस्वस्त्ययनीः सुदुघाहिघृतश्चुतः ऋषिभिःसंभृतोरसः ५

ब्राह्मणेष्वमृत हितम् येनदेवाःपवित्रेण आत्मानंपुनते सदा तेनसहस्त्रधारेण पावमान्यः

पुनंतुमा प्राजापत्यंपवित्रम् शतोद्यामहिरण्मयम् तेनब्रह्माविदोवयम् पूतंब्रह्मपुनीमहे

इन्द्रःसुनीतीसहमापुनातु सोमःस्वस्त्यावरुणःसमीच्या यमोराजाप्रमणाभिःपुनातुमा

जातवेदामोर्जयन्त्यापुनातु ६ इत्यनुवाकेनचाभिषिच्यव्याह्रतिभिरिदंविष्णुरितिचफलयवदूर्वाःसमर्प्य

रक्षोहणमितिदेवहस्तकेङ्कणंबध्वावाससाच्छाद्य अवतेहेळो उदुत्तममितिजलेऽधिवासयेत् ॥