०३ जपमालानांसंस्कारः

अथरुद्राक्षतुलस्यादिसर्वजपमालानांसंस्कारः

अथरुद्राक्षतुलस्यादिसर्वजपमालानांसंस्कारः कुशोदकसहितैःपञ्चगव्यैर्मालांप्रक्षाल्य

ॐ र्‍हीं अं आं इं ई उ ऊ ऋ ऋलृलृं एं ऐं ओं औं अं अः कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं

पंफंबंभंमंयंरंलंवं शंषंसंहंक्षं इत्येतानि पञ्चाशन्मातृकाक्षराणि अश्वत्थपत्रस्थापितमालायांविन्यस्य

ॐ सद्योजातं० वामदेवाय० अघोरेभ्यो० तत्पुरुषाय० ईशानःसर्वविद्याना० इति पञ्चमन्त्रान्‌जपित्वा

सद्योजातेतिमन्त्रेणमालांपञ्चगव्येनप्रोक्ष्यशीतजलेनप्रक्षाल्यवामदेवेतिचंदनेनाघृष्याघोरेति

मालांधूपयित्वातत्पुरुषेतिचन्दनकस्तूर्यादिनालेपयित्वेशान

इति मन्त्रेणप्रतिमणिंशतवारंदशवारंवाभिमन्त्र्य अघोर इति मन्त्रेणमेरुंशतवारमभिमन्त्रयेत्

तत एतैरेवपञ्चभिर्मन्त्रैर्मालांपञ्चोपचारैः पूजयेदिति ॥

बोपदेवः रुद्राक्षान्कण्ठदेशेदशनपरिमितान्मस्तकेविंशतीद्वे षट्षट्‌कर्णप्रदेशेकरयुगुलकृतेद्वादशद्वादशैव ।

बाह्वोरिन्दोःकलाभिर्नयनयुगकृते एकमेकंशिखायांवक्षस्यष्ठाधिकंयःकलयतिशतकंसस्वयंनीलकण्ठः १ रुद्राक्षदानाद्रुदपदप्राप्तिः ॥

पञ्चविंशत्पलंलिङ्गेष्वभ्यङ्गंकारयेदथ ।

स्नापयेत्तिलतैलैश्चकरयन्नोद्भवैःशिवम् १ स्नानंपलशतंज्ञेयमभ्यङ्गपञ्चविंशतिः १

पलानांद्विसहस्त्रेणमहास्नानंजलेनतत् । पयोदधिघृतक्षौद्रशर्कराद्यैस्ततःक्रमात् २

शिवस्यसर्पिषास्नानंप्रोक्तंपलशतेनवै । तावतामधुनाचैवदध्नाचपयसापिच ३

पलसार्धसहस्त्रेणरसेनैवैक्षवेणच । भक्त्याचोष्णोदकैःशीतोदकैःसंस्नापयेच्छिवम् ४

श्रीविष्णुंक्षीरदध्याद्यैःक्रमाद्दशगुणोत्तरैः । स्नापयेत्केचिदूचुक्षीराद्यैःपञ्चभिःसमैः ॥