अश्विनी-रोहिणी-मृग-पुष्य-मघा-त्र्युत्तरा–मूल-श्रवणादि-त्रय-हस्त-ज्येष्ठानुराधा-रेवतीषु
द्वितीया-तृतीया-पञ्चमी-सप्तमी-दशम्य्- एकादशी-त्रयोदशी-तिथिषु
बुध-गुरु-शुक्र-सोम-वारेषु
जलोत्सर्गः शुभः
उत्सर्गाभावे जलं न ग्राह्यम् वापीकूपतडागादौ यज् जलं स्याद् असंस्कृतम् ।
न स्पृष्टव्यं न पेयं च पीत्वा चान्द्रायणं चरेत् १
उत्सर्गप्रयोगो ऽन्यतो ज्ञेयः ॥