अथकाम्यनैमित्तिकविचारः अवश्यंप्रत्यहंकृत्यमुक्त्वातच्छेष उच्यते ।
काम्यंनैमित्तिकं चापिप्रायःसिन्धुक्रमादथ ॥
तत्राधाननक्षत्रादिकालविचारःप्रथमपरिच्छेदे उक्तः
आवसथ्याधानंतुदारकालेदायविभागकालेवा अग्निर्वैवाहिकोयेननगृहीतःप्रमादिना ।
पितर्युपरतेतेन गृहीतव्यःप्रयत्नतः १ गृह्याग्निहीनस्यान्नमभोज्यम्
पितरिज्येष्ठभ्रातरिवासाग्निकेकनिष्ठादरेविभक्तस्यनिरग्निकत्वदोषोन
एवं ज्ञानाध्ययनादिनिष्ठस्यापिनदोषः गृहस्थस्यपयध्ययनोक्तेः
स्मार्ताधानमपिज्येष्ठेभ्रातरि अकृताधानेसतिनकार्यमितिनिर्णयसिन्ध्वादौगार्ग्योक्तिः
अत्रैवं निर्णयोभाति यत्रज्येष्ठेनदायाद्यपक्षमवलम्ब्य
विवाहकालेयावज्जीवमौपासनंकरिष्ये इत्येवं संकल्पपूर्वकंविवाहाग्निर्नगृहीतस्तद्विषयोऽयंकनिष्ठस्यनिषेधः
येनज्येष्ठेनविवाहकालेतथासंकल्पपूर्वकमग्निःपरिगृहीतः
सपश्चात्परिचरणाभावेनाविद्यमानाग्निकोऽपि उच्छिन्नाग्निरेवनत्वकृताधान इति तवकनिष्ठस्याधानेदोषोनेति
अत्राधिकारिणोऽपिभ्रातुरनुज्ञयाकनिष्ठस्याधानंभवति विवाहस्तु अनुज्ञयापिन
एवं पितुरनुज्ञयाप्याधानम् संन्यस्तेछिन्नहस्तादौयद्वा षण्ढादिदूषणे ।
जनकेसोदरेज्येष्ठेकुर्यादेवेतरः क्रियाम् १ इत्यादिविशेषः विवाहप्रकरणेपरिवेत्तुप्रसङ्गे उक्तः ॥