४० चतुरस्त्रमण्डलेप्रक्षालितं

चतुरस्त्रमण्डलेप्रक्षालितपांत्रंनिधायपञ्चयज्ञावशिष्टंघृतादियुतंपरिविष्टमन्नमस्माकंनित्यमस्त्वेतदितिवदन्नतवाग्रन्थिरहितपवित्रयुतदक्षिणपाणिः

पादाभ्यांपादेनवाभुवं स्पृशन्‌व्याहृतिभिर्गायत्र्याचाभिमन्त्र्य सत्यंत्वर्तेनपरिषिञ्चामि इति दिवा

ऋतंत्वासत्येनपरिषिञ्चामीतिरात्रौपरिषेचनंकृत्वा अन्तश्चरतिभूतेषुगुहायांविश्वतोमुखः ।

त्वं यज्ञस्त्वं वषट्‍कारस्त्वं विष्णुः पुरुषःपरः१ पात्राद्दक्षिणेभूमौ भूपतयेनमः भुवनपतयेनमः भूतानांपतये०

इति त्रीन्बलीन्दद्यात्‌ यद्वा चित्राय० चित्रगुप्ताय० यमाय० यमधर्माय० सर्वेभ्योभूतेभ्य०

इति वा व्यस्तसमस्तव्याहृतिभिर्वाचत्वारः धर्मराजायचित्रगुप्तायेतिद्वौवा भूपत्यादित्रययुतावेतावितिमञ्चवादेयाः

हस्तपादमुखार्द्रः आपोशनार्थंजलमादाय अन्नंब्रह्मरसोविष्णु०

अहंवैश्वानरोभूत्वेत्यर्थंध्यात्वावामकरेणपात्रंधृत्वा अमृतोपस्तरणमसीत्यपः प्राश्यमौनी

ॐप्राणायस्वाहा ॐ अपानायस्वाहा ॐव्यानाय० ॐ उदानाय० ॐसमानाय० इति सघृताःसक्षीरावापञ्चाहुतीः

सर्वाङ्‌गुलिभिः सर्वं ग्रासंग्रसन्‌ मुखेजुहुयात्‌ ब्रह्मणेस्वाहेतिषष्ठीक्वचित्‌

प्राणाहुतिपर्यन्तंपात्रालम्भोमौनंचनियतमग्रे ऐच्छिकंद्वयम्‌ भोजनंप्राङ्‌मुखंप्रत्यङ्‌मुखंवाशस्तं

दक्षिणामुखंयशः फलंकाम्यम्‌ उदङ्‌मुखमधमम्‌ विदिङमुखंनिषिद्धम्‌

कृत्स्नंग्रासंग्रसन्द्वात्रिंशदादिनियतग्रासमनियतग्रासंवाभुक्‍त्वा अमृतापिधानमसीतिगण्डूषार्धंपीत्वाऽर्धं

भूमौनिनीयपवित्रंत्यक्‍त्वामुखहस्तोच्छिष्टंसम्यक्‌ प्रक्षालयेत्‌ तर्जन्यामुखंनशोधयेत्‌ किंचिद्गण्डूषोत्तरं

हस्तप्रक्षालनंषोडशगण्डूषान्तेद्विराचामेत्‌ भोजनगृहेचनाचामेत्‌ अनाचान्तोमूत्रपुरीषौनकुर्यात्‌

उत्तरापोशनमकृत्वोत्थानेस्नात्वाशुद्धिः हस्तौसंमृज्यप्रस्त्राव्याङ्‌गुष्ठेननेत्रयोर्निषिञ्च्येष्टदेवतांस्मरेत्‌

नाञ्जलिनापिबेत्‌ पालाशं दग्धमयोबद्धंचपीठंवर्जयेत्‌ नशिशुभिःसहभुञ्जीत भार्ययासहविवाहवर्जंन

भुञ्जीत बालवृद्धेभ्योन्नमदत्वानभुञ्जीत

नप्रौढपादोनासनारुढपादोनप्रसारितपादोनविदिक्‌तुण्डोनदुष्टैकपङ्‌क्तौनशून्याग्रिपाकगृहेनदेवालयेभुञ्जीत

नसंध्ययोर्नमहानिशायांनयज्ञोपवीतहीनोनवामहस्तेननशूद्र शेषंभुञ्जीत आदौमधुरंमध्येलवणाम्लमन्तेतिक्तादि

पूर्वं द्रवं मध्येकठिनमन्तेद्रवम्‌ अष्टौग्रासायातेः षोडशद्वात्रिंशद्वागृहिणो वनस्थस्यषोडश

यथेष्टंब्रह्मचारिणः सर्वं सशेषमश्रीयान्निः शेषंघृत पायसम्‌ । क्षीरंदधिमधुभुञ्जीत दिवारात्रौचेतिद्विवारमेवनान्तराभोजनम्‌ ॥