अथतैत्तिरीयाणाम् ॥ श्राद्धदिनेभिन्नपाकेनादौवैश्वदेवःदेवयज्ञादिचतुष्टयंचभवति
अपरे आदौवैश्वदेवांतेतुपंचमहायज्ञा इत्याहुः याजुषाःसामगाःपूर्वं मध्येकुर्वं त्यथर्वणाः बहवृचाः
श्राद्धशेषेणतत्राप्यादौतुसाग्रिकाः स्वर्गपुष्टयर्थमात्मसंस्कारार्थंप्रातःसायंवैश्वदेवौतंत्रेणकरिष्ये
औपासनाग्रिंपचनाग्रिंवाप्रतिष्ठापितमौपासनहोमवत्परिसमुह्यपरिषिच्यान्नमग्नावधिश्रित्य
प्रोक्ष्योद्वास्याभिघार्याग्रिंसंपूज्यान्नंत्रेधाविभज्य हस्तेनजुहुयात् अग्नयेस्वाहा विश्वेभ्योदेवेभ्यः०
ध्रुवायभूमाय० ध्रुवक्षितये० अच्युतक्षितये० अग्नयेस्विष्टकृते० परिसमुह्यपर्युक्ष्य अग्नेः
पश्चादेकत्रैवदेशेव्यजनाकारश्चक्राकारोवाबलिः तत्रदेवताः धर्मायस्वाहा धर्मायेदं० अधर्माय० अद्भयः०
ओषधिवनस्पतिभ्यः० रक्षोदेवजनेभ्यः० ग्रुह्याभ्यः० अवसानेभ्यः० अवसानपतिभ्यः० सर्वभूतेभ्यः०
कामायः० अंतरिक्षाय० यदेजतिजगतियच्चचेष्टतिनाम्नोभागोयन्नाम्ने स्वाहा नाम्र इदं०
केचिद्वायव इदमितित्यागमाहुः पृथिव्यैस्वाहा अंतरिक्षाय० दिवे० सूर्याय० चंद्रमसे० नक्षत्रेभ्यः० इंद्राय०
बृहस्पतये० प्रजापतये० ब्रह्मणे० सर्वान्सकृत्परिषिच्यपृथक्पृथक्परिषेचनपक्षे द्वावेकंद्वेचचत्वारिप्रत्येकंत्रीणिचैवहि
पृथिव्यादिदशस्यैकमत ऊर्ध्वं पृथक्क्रमादितिज्ञेयं प्राचीनावीती तद्दक्षिणतः स्वधापितृभ्यःस्वाहा
तदुत्तरत उपवीती नमोरुद्रायपशुपतयेस्वाहा पितृरुद्रबलीपृथक्परिषिंचेत् इति वैश्वदेवः ॥