३० वैश्वदेवस्यसहकरणपक्षेतन्त्रयोगः

अथप्रातः सायं वैश्वदेवस्यसहकरणपक्षेतन्त्रयोगः

तत्रवैष्णवैर्भगवतेषोडशोपचारेषुदीपान्तानुपचारान्समर्प्यसर्वान्नात्पुरुषाहारपर्याप्तंनैवेद्यंसमर्प्यशेषान्नेनवैश्वदेवःकार्यः

वैष्णवभिन्नैस्तुवैश्वदेवान्तेतच्छेषेणनैवेद्यः कार्यः विष्णोर्निवेदितान्नेनयष्टव्यंदेवतान्तरम् ।

पितृभ्यश्चापितद्देयंतदानन्त्यायकल्पते १ इत्यादिवचनानांवैष्णवविषयकत्वस्यनिबन्धकारैरुक्तत्वात्

अत्रवैष्णवानारायणाष्टाक्षरादिवैष्णवमन्त्रदीक्षोपदेशजपवन्तोमुख्याः उपदेशः कलौयुग इति स्मृत्यौपदेशमात्रस्यापिदीक्षासमफलत्वात्

गौणाश्चपारंपर्यागतारुणोदयविध्दैकादश्यनुपवासशुक्लकृष्णैकादश्युपवासादियत्किंचिध्दर्ममात्रपरामन्त्रोपदेशादिरहिताः

ननुपाञ्चरात्राद्यागमोक्तदीक्षांप्राप्तोहिवैष्णवः । इत्युक्तेः किंचिध्दर्ममात्रानुष्ठानेनकथंवैष्णवत्वमितिचेत्

गायत्र्यध्ययनादिक्षत्रियवैश्यसाधारणधर्मवतांयाजनाध्यापनप्रतिग्रहरुपासाधारणधर्मशून्यानां

पित्रादिपरंपरयावैश्यादिवृत्तिपराणामप्यव्यभिचरितैकगोत्रत्वादियत्किंचिद्‌ब्राह्मणधर्ममात्रेण

यथाब्राह्मणत्वं तदुचितसूतकाद्याचारश्चतथाकलियुगेकिंचिद्धर्मेणापिवैष्णवत्वं तदुचिताचारश्चयुज्यते

क्षत्रियाणांहिपुरोहितभेदेनगोत्रभेदस्तेनयदुवं शेषुपरस्परंविवाहोनैवं ब्राह्मणेष्वितिस्पष्टम्

एवं श्राद्धेपिनैवेद्यंसमर्प्यपितृभ्योन्ननिवेदनंज्ञेयम् ममात्मान्नसंस्कारपञ्चसूनाजनितदोषपरिहारद्वाराश्रीपर०

प्रातर्वैश्वदेवं सायंवैश्वदेवं चसहतंत्रेणकरिष्ये कुण्डेस्थण्डिलादौवापचनाग्निंव्याहृतिभिः

पावकनामानंप्रतिष्ठाप्यचत्वारिशृङ्‌गेतिध्यात्वापरिसमुह्यपर्युक्ष्यविश्वानिन इत्यर्चंनादिविधायघृताक्तमन्नमग्रावधिश्रित्यप्रोक्ष्योद्वास्याग्नेः

पञ्चान्निधायत्रिधाविभज्यप्रथमभागंदेवेभ्यो जुहुयात् तद्यथा हृदिसव्यंकरंनिधायोत्तानहस्तेन

सूर्यायस्वाहासूर्यायेदंन मम प्रजापतये० सोमायवनस्पतये० अग्नीषोमाभ्यां० इन्द्राग्निभ्यां०

द्यावापृथिवीभ्यां० धन्वन्तरये० इन्द्राय० विश्वेभ्योदेवेभ्यः० ब्रह्मणे० इति दशप्रातर्वैश्वदेवाहुतयः ।