२५ हिरण्यकेशीयानांसंकल्पाः

अथहिरण्यकेशीयानांसंकल्पादित्रिर्गायत्रीजपांतं प्राग्वत् तत इषेत्वोर्जेत्वेति अध्यायमनुवाकंवायथाशक्तिपठित्वा

ऋचंसामषडङ्‌गेतिहासपुराणादीनिपठित्वानमोब्रह्मण इत्येतयात्रिः परिदधाति ।

अथतर्पणम् तच्चतैत्तिरीयाणांब्रह्मयज्ञाङ्‌गंनभवति तेनब्रह्मयज्ञोत्तरंव्यवहितकालेपिब्रह्मयज्ञात्प्रागपिभवति

एवं काण्वमाध्यन्दिनानामपि अतोदेवर्ष्याचार्यपितृतृप्तिद्वाराश्रीपरमेश्वर० देवर्ष्याचार्यपितृतर्पणंकरिष्ये इति पृथगेवसंकल्पः

पूर्ववदेकैकाञ्जलिनादेवतर्पणम् ब्रह्माणंतर्पयामि प्रजापतिंतर्प० बृहस्पतिं० अग्निं० वायुं० सूर्यं० चन्द्रमसं० नक्षत्राणि०

इन्द्र राजानं० यम राजानं० वरुण राजानं० सोमराजानं० वैश्रवण राजानं० वसून्‌० रुद्रान् ० आदित्यान्‌० विश्वान्देवान्‌०

साध्यान्‌० ऋभून्‌० भृगून्‌० मरुतः० अथर्वणः० अङि‌गरसस्तर्पयामीति निवीती उदङ्‌मुखः विश्वामित्रं० जमदग्निं०

भरद्वाजं० गौतमं० अत्रिं० वसिष्ठं कश्यपं० अरुन्धतीं० अगस्त्यं० कृष्णद्वैपायनं० जातूकर्ण्यं० तरुक्षं० तृणबिन्दुं०

वर्मिणं वरुथिनं० वाजिनं० वाजिश्रवसंतर्पयामि सत्यश्रवसंत० सुश्रवसंत० सुतश्रवसं० सोमशुष्मायणं० सत्ववन्तं०

बृहदुक्थं० वामदेवं ० वाजिरत्‍नं० हर्यज्वायनं० उदमयं० गौतमं० ऋणंजयं० ऋतंजयं० कृतंजयं० धनंजयं० बभ्रुं०

त्र्यरुणं० त्रिवर्षं० त्रिधातुं० शिबिं० पराशरं० विष्णुंत० रुद्रं० स्कंदं० काशीश्वरं० ज्वरंतं० धर्मं० अर्थं० कामं० क्रोधं०

वसिष्ठं० इन्द्रं० त्वष्टारंत० कर्तारं० धर्तारं० धातारं० मृत्युं० सवितारंत० सवित्रींतर्प० ऋग्वेदंत० यजुर्वेदं० सामवेदं०

अथर्ववेदं० इति हासपुराणंत० ६१ इति द्वौद्वावञ्जली० प्राचीनावीतीदक्षिणामुखः वैशंपायनं० पिलिंगुं० तित्तिरंत० उखंत०

आत्रेयंपदकारं० कौण्डिण्यंवृत्तिकारं० सूत्रकारान्‌० सत्याषाढंत० प्रवचनकर्तृन्‌० आचार्यान् ऋषीन्‌० वानप्रस्थान्‌०

ऊर्ध्वरेतसः० एकपत्‍नीस्तर्पयामीतित्रींस्त्रीनञ्जलीनितिविशेषः शेषंपितृतर्पणादिसर्वं प्रागुक्तमेव ।