सचप्रातर्होमोत्तरंवामध्याह्नसंध्योत्तरंवावैश्वदेवान्तेवासकृदेवकार्यः भट्टोजिदीक्षितीयेतुप्रातराहुतेरनन्तरकालः
शाखान्तरविषयः आश्वलायनैस्तु मध्याह्नसंध्योत्तरमेवानुष्टेय इयुक्तम्
शुष्कंवासस्तदभावे आद्रत्रिर्विधुन्वन्परिधायाचम्यप्राणानायम्यश्रीपरमेश्वरप्रीत्यर्थंब्रह्मयज्ञं
करिष्ये तदङ्गतयादेव ऋष्याचार्यतर्पणंकरिष्ये मृतपितृकैःपितृतर्पणंचकरिष्ये इति संकल्प्य
दर्भेषुदर्भपाणिःप्राङ्मुख एवोपविश्यवामजङ्घोपरिमूलदेशे
दक्षिणपादंनिधायाथवावामपादाङ्गुष्ठोपरिदक्षिणपादांङ्गुष्ठंनिधायैवम उपस्थंकृत्वादक्षिणजानुस्थेवामेकरे उत्तानेप्रागग्राङ्गुलौ
प्रागग्रेद्वेपवित्रेधृत्वादक्षिणकरेणतथैवसंपुटीकृत्यद्यावापृथिव्योः
संधिमीक्षमाणोनिमीलिताक्षोवाॐकारव्याहृतीःसकृदुच्चार्यगायत्रींपच्छोर्धर्चशःसर्वामनवानामितित्रिर्जपेत् ततोग्रिमी ळ इति सूक्तंपठित्वासंहिताब्राह्मणषडङ्गानि एकंसमाप्यापरमिति अध्यायंसूक्तमृचंवायथाशक्तिक्रमशःपठेत्
मंत्रब्राह्मणादीनिभागशःसर्वाणियथाशक्तिप्रतिदिनंपठेदितिकेचित्
एवं चतुर्वेदाध्यायीक्रमशश्चतुर्वेदान्भागशःसर्वानेववा ऋग्वेदपूर्वकान्पठेत् एकैकशाखाध्यायीतुस्वशाखामेव
शाखाध्ययनाभावे सूक्तमृचंवापठित्वैकंयजुःसामचोपनिषदश्चेतिहासपुरणादींश्चपठेत् पुरुषसुक्तमुक्त्वा
नमोब्रह्मणेनमो अस्त्वग्रय इति ऋचंत्रिःपठेत् नात्र ऋष्यादिस्मरणम् विद्युदसीत्यादेराद्यन्तेपाठस्तैत्तिरीयविषयः
उपविश्यपाठाशक्तस्तिष्ठन्व्रजन्शयानोवापठोदित्याश्वलायनः अनध्यायेष्वल्पंपठेत् ।