२० चतुर्थभागेमध्याह्नस्नानम्

चतुर्थभागेमध्याह्नस्नानम् प्रातर्गोमयस्नानम् मध्याह्नमृत्तिकोस्ननाम् अनयोर्विधिःप्रायश्चित्ते उक्तः

शेषविधिःप्रातःस्नानवत् ब्रह्मयज्ञाङ्‌गतर्पणात्माक्‌वस्त्रंननिष्पीडयमितिविशेषः

ततोधृतपुण्ड्रोमध्याह्नसंध्यांकुयात् अध्यर्ययामादासायंसंध्यामाध्याह्निकीष्यते ।

तत्रविशेषसूर्यश्वेतिस्थाने आपःपुनन्त्वितिमन्त्राचमनम् आपःपुनन्त्वित्यस्यनारायणयाज्ञवल्क्य आपःपृथिवीब्रह्मणस्पतिरष्टी

मन्त्राचमनेविनियोगः ॐ आपःपुनन्तुपृथिवींपृथिवीपूतापुनातुमाम् । पुनन्तुब्रह्मणस्पतिर्ब्रह्मपूतापुनातुमाम् ।

यदुच्छिष्टमभोज्यंयद्वा दुश्चरितंमम । सर्वं पुनन्तुमामापोसतांचप्रतिग्रह ॐ स्वाहा ।

इति पिबेत् अघमर्षणान्तेतिष्ठन्‌हंसःशुचिषदित्यस्यगौतमःसूर्योजगतीसूर्यार्घ्यदानेविनियोगः

ॐ हंसःशुचिषः एकार्घ्यम् अर्घ्यान्ते उपस्थानम् ऊर्ध्वबाहुः उदुत्यमितित्रयोदशर्चस्यप्रस्कण्वः

सूर्योगायत्री अन्त्याश्चतस्त्रोऽनुष्टुभः सूर्योपस्थाने० केचिच्चित्रं देवानामितिषड्‌भिरप्युपतिष्ठन्ते

शेषमुपस्थानवर्ज्यंप्रातःसंध्यावत् रात्रौ

मध्याह्नसंध्यायां आकृण्णेनेत्यर्घ्यदानंगायत्र्याप्रायश्चित्तार्थंद्वितीयंदत्वाहविष्पान्त्रमितिपञ्चर्योपस्थानम् ॥