१९ तृतीयभागेपोष्यवर्गांर्थधनार्जनम्

तृतीयभागेपोष्यवर्गांर्थधनार्जनम् यजनाध्ययनदान्याजनाध्यापनप्रतिग्रहाः

षट्‌विप्रकर्माणि षण्णांतुकर्मणामस्यत्रीणिकर्माणिजीविका ।

याजनाध्यापनेचैवविशुद्धाच्चप्रतिग्रहः १ श्रीभागवते प्रतिग्रहंमन्यमानस्तपस्तेजोयशोनुदम् ।

अन्याभ्यामेवजीवेतशिलैर्वादोषदृक्‌तयोः १ इति तथा वार्ताविचित्राशालीनयायावरशिलोञ्छनम् ।

विचित्रावार्ता कृष्यादिः शालीनमयाचितम् यायावरंप्रत्यहंधान्ययाञ्चा कणिशोपादानंकणोपादानंचशिलोञ्छनम्

अत्रोत्तरोत्तराप्रशस्ता शिलोञ्छनंकलौनिषिध्म् कुसूलकुम्भीधान्योवात्र्याहिकोश्वस्तनोपिवा ।

कुटुम्बपोषणेद्वादशाहपर्याप्तधान्यः कुसूलधान्यः षडहपर्याप्तधान्यः कुम्भीधान्यः नुकर्यात्कृषिवाणिज्यंसेवावृत्तिंतथैवच ।

ब्राह्मण्याध्दीयतेतेनतस्मात्तानिविवर्जयेत् १ इत्युक्तेर्वार्तावृत्तिरापद्विषया पुत्रमांसं वरंभोक्‍तुंनतुराजप्रतिग्रह

इति वाक्यमधर्मवर्तिराजप्रतिग्रहविषयम् वृद्धौचमातापितरौसाध्वीभार्याशिशुःसुतश्चायाज्ययाजनशूद्रप्रतिग्रहादिनापिपोषणीया

इत्यप्यापदि शाकपयोदधिपुष्पजलकुशभूमयः कुलटाषण्ढपतितभिन्नात्‌नीचादययाचितप्राप्ताग्राह्याः ब्रह्मचारीयतिश्चैवविद्यार्थीगुरुपोषकः ।

अध्वगःक्षीणवृत्तिश्चषट्‌पक्वान्नस्यभिक्षुकाः १ शूद्रस्यद्विजशुश्रूषावृत्तिः आपदिकृष्यादिः ॥