१८ संक्षेपतःपूजाप्रयोग उच्यते

तत्रसंक्षेपतःपूजाप्रयोग उच्यते विशेषविचारस्तुमूर्तिप्रतिष्ठाप्रसङ्गेनवक्ष्यते

तत्रोदयात्पूर्वनिर्माल्यमपसार्ययथाकालेपूजारम्भः येभ्योमाता० एवापित्रे०

इति पठनघण्टानादंकृत्वाऽचम्यप्राणानायाम्यदेशकालादिसंकीर्तनान्ते श्रीमहाविष्णुपूजांकरिष्ये

इति पञ्चायतन पक्षे श्रीरुद्रविनायकसूर्यशक्तिपरिवृतश्रीमहाविष्णुपूजाकरिष्य

इति संकल्प्यासनादिविधायसहस्त्रशीर्षेतिषोडशर्चस्यसूक्तस्यनारायणः पुरुषोनुष्टुप् अन्त्यात्रिष्टुपन्यासेपूजायांचविनि०

ततःप्रथमामृचंवामेकरेद्वितीयांदक्षिणेन्यसेत तृतीयांवामेपादेचतुर्थीदक्षिणेपञ्चमीवामेजानुनि

षष्ठीदक्षिणेसप्तमींवामकटौ अष्टमींदक्षिणेनवमींनाभौदशमीह्रदि एकादशीकण्ठेद्वादशीवामबाहौत्रयोदशीदक्षिण एचतुर्दशीमुखेपञ्चदशीमक्ष्णोः

षोडशीमुन्धि एवं देहेचदेवेचन्यासंकुर्याद्विधानतः ।

अत्न्याभिःपञ्चभि ऋग्भिर्ह्रदयायङ्गपञ्चके १ कलशंशङ्खघण्टेचपाद्यार्घ्याचमीनयकम् ।

संपूज्यप्रोक्ष्यचात्मानंपूजासंभारमेवच २ ध्यायेदभिमतांविष्णुमूर्तिसंपूजयेत्ततः ।

प्रत्यमयापुरुष सूक्तस्य ऋचावाहनं शालिग्रामादौ आवाहनाभावान्मन्त्रपुष्पम

ऋगन्तेश्रीमहाविष्णवेश्रीकृष्णायेत्येवमभिमतमूर्तिचतुर्थ्योद्दिश्यसर्वोपचारार्पणम

पञ्चायतनेतुश्रीविष्णवे शिवविनायकसूर्यशक्तिभ्यश्चेत्येवं यथोपास्यमुच्चारः नैवेद्यादौपार्थक्याभावेयथांशत इति वदेत

द्वितीययाऽऽसनंदद्यात तृतीययापाद्यम् चतुर्थ्यार्घ्यम पञ्चम्याऽऽचमनम् षष्ठ्यास्नानम्

संभवेपञ्चामृतस्नानान्याप्यायस्वेत्यादिमन्त्रैः चन्दनोशीरकर्पूरकुङ्कुमागरुवासितजलैः

सुवर्णघर्मानुवाकमहापुरुषविद्यापुरुषसूक्तराजनसामभिरभिषेकः सप्तम्यावस्त्रम् अष्टम्यायज्ञोपवीतम्

नवम्यागन्धम् दशम्यापुष्पाणि एकादश्याधूपम् द्वादश्यादीपम् स्नानेधूपेचदीपचघण्टादेर्नादमाचरेत् ।

त्रयोदश्यानैवेद्यम् संभवेताम्बूलफलदक्षिणानीराजनंच चतुर्दश्यानमनम् पञ्चदश्याप्रदक्षिणा

षोडश्याविसर्जनंपुष्पाञ्जलिर्वास्नानेवस्त्रेचनैवेद्येदद्यादाचमनंतथा ।

दत्वाषोडशभि ऋग्भिः षोडशान्नस्यचाहुतीः १ सूक्तेनप्रत्र्यृचंपुष्पंदत्वासूक्तेनसंस्तुयात् ।

ततः पौराणैःप्राकृतैश्चस्तुत्वा शिरोमत्पादयोःकृत्वाबाहुभ्यांचपरस्परम् ।

प्रपन्नंपाहिमामीशभितमृत्युग्रहार्णवात् १ इति वदन्नमेत् निर्माल्यंदेवदत्तंभावयित्वाशिरसिधारयेत्

विष्णुमूर्ध्निस्थितंपुष्पंशिरसानवहेन्नरः ।

शङ्खोदकंशिरसिधृत्वादेवतीर्थंपूजान्तेवैश्वदेवान्तेवाशिरसिधार्यपेयंच तत्रक्रमः विप्रपादोदकं पीत्वाविष्णुपादोकंपिबेत् ।

शालिग्रामशिलातोयमपीत्वायस्तुमस्तके १ प्रक्षेपणंचकुरुतेब्रह्महासनिगद्यते ।

पात्रान्तरेणवैग्राह्यंनकरेणकदाचन २ इति कमलाकरः क्षालनेनैकस्यैववस्त्रस्यप्रतिदिनेदानेदोषोन

एवं स्वर्णादिभूषणानामपि सुवर्णमययज्ञोपवीतेप्येवमाचारः एवं पूजायाः फलंस्कान्दे कामासक्तोऽथवाक्रुद्धःशालिग्रामशिलार्चनात् ।

भक्त्यावायदिवाऽभक्त्याकलौमुक्तिमवाप्नुयात १ कथांयः कुरुतेविष्णोःशालिग्रामशिलाग्रतः ।

वैवस्वतभयंनास्तितथाचकलिकालजम् २ प्रायश्चित्तंहिपापानांकलौपादोदकंहरेः ।

धृतेशिरसिपीतेचसर्वास्तुष्यन्तिदेवताः ३ बौधायनोक्तोहरिहरयोः पूजाविधिः पराशरमाधवे मयातुशिवपूजाविधिः

शिवरात्रिप्रकरणेद्वितीयपरिच्छेदे उक्त इति नेहोच्यते कौर्मे योमोहादथवालस्यादकृत्वादेवतार्चनम् ।

भुङ्क्तेसयातिनरकंसूकरेष्वभिजायते १ एवं देवं संपूज्यमातापितृप्रमुखानगुरूनपूजयेत यस्य देवेपराभक्तिर्यथादेवेतथागुरौ ।

इति श्रुतेरितिमाधवः ॥