१५ होमप्रकरणम्

अग्निसमारोपेकातीयैर्वैश्वदेवःपाकश्चलौकिकेऽग्नौकार्य इत्याहुः यस्यवेदश्चवेदीचविच्छिद्येतित्रिपूरूषम् ।

सवैदुर्ब्राह्मणोज्ञेयःसर्वकर्मसुगर्हितः १ अग्निहोत्रंप्रकुर्वीतज्ञानवाञ्छ्रद्धयान्वितः ।

अग्निहोत्रात्परोधर्मोनभूतोनभविष्यति २ श्रौतेकर्मणिनोशक्तोज्ञानद्रव्याद्यभावतः ।

स्मार्तकुर्याद्यथाशक्तोऽत्राप्याचारंलभेत्सदा ३ कृतदारोनतिष्ठेतक्षणमप्यग्निनाद्विना ।

तिष्ठेतचेद्द्विजोव्रात्यस्तथाचपतितोभवेत् ४ नगृह्णीयाद्विवाहाग्निगृहस्थ इति मन्यते ।

अन्नंतस्यनभोक्तव्यंवृथापाकोहिसस्मृतः ५ योदद्यात्काञ्चनंमेरुंपृथिवींचससागराम् ।

तत्सायंप्रातर्होमस्यतुल्यंभवतिवानवा ६ इति होमप्रकरणम् ॥