१३ कात्यायनोपयोगीकिंचिदुच्यते

अथकात्यायनोपयोगीकिंचिदुच्यते पराग्निपक्वं नाश्रीयाद्गुडगोरसमन्तरा ।

आहिताग्नेरयंधर्मोयाज्ञिकानांतुसंमतः १ इक्षूक्षीराविकारश्चभ्राष्ट्रभृष्टयवा अपि ।

पराग्निपक्वं नज्ञेयंप्रवासेचाग्निहोत्रिणः २ यदन्नंवारिहीनंचंपक्वं केवलपावके ।

तदन्नंफलवद्‌ग्राह्यमन्नदोषोनविद्यते ३ प्रातर्होमंतुनिर्वर्त्यसमुद्धृत्यहुताशनात ।

शेषंमहानसेकृत्वातत्रपाकंसमाचरेत ४ पूर्वेणयोजयित्वातं तस्मिन्होमोविधीयते ।

अतोस्मिन्वैश्चदेवादिकर्मकुर्यादतन्द्रितः ५ ॥