१२ मृतायैपत्न्यैदाहायार्धग्नि

मृतायैपत्न्यैदाहायार्धग्निदत्त्वावशिष्ठाग्रौसायंप्रातर्होमस्थालीपाकाग्रयणानिकुर्यात

कौस्तुभेतु अर्धाग्निदानादिमुक्त्वाविधुरस्यापूर्वाधानप्रकारस्तस्यविच्छेदेपुनराधानप्रकारश्चोक्तः

तत्राधानप्रकारोवशिष्टाग्नेःप्राकहोमान्नाशपरः

यद्वा श्रौताग्निषुभार्यायै अर्धाग्निदानंकृत्वा उत्सर्गेष्ट्यापूर्वाग्रीन्परित्यज्यपुनराधानंकृत्वाग्निहोत्रंकार्यमित्युक्तं

तद्वदत्रापि उत्सर्गेष्ट्यापूर्वाग्नित्यागोत्तरमपूर्वाधानंकौस्तुभे उक्तमितियोज्यमितिभाति ॥

अरणिस्रुवादिपात्रानांलक्षणवृक्षादिविचारोऽन्यत्रज्ञेयः एतेषांविधीनांसंकल्पादिविस्तरयुक्ताःप्रयोगागृह्याग्निसागरे

प्रायश्चित्तादिविधयःप्रायःसर्वसूत्रेषुसमाना एव क्वचित्क्वचित्स्वस्वसुत्रोक्ताविशेषा ऊह्याः

विवाहहोमोगृहप्रवेशनीयहोमेनसमानतंत्रो*नुष्ठीयमानोबव्ह्रचानांपुनराधानम् अन्येषांविवाहहोमाद्भिन्नमेवेतिविशेषः ॥