०९ अग्न्युपघातनिमित्तानि

अथाग्न्युपघातनिमित्तानि श्वशूकरारासभकाकसृगालमर्कटशूद्रान्त्यजपतितकुनपसूतिकारजस्वलाभिः

पुरीषमूत्ररेतोश्रुपूयश्लेष्मशोणितास्थिमांसादिभिरन्यैर्वाजुगुप्सितैरारोपितारणि स्पर्शैऽग्नेःस्पर्शेवाऽग्निनाशः

तत्रारणिगतेवन्हौनष्टेपुनराधेयमग्नेःस्पर्शेपुनराधानम यद्वा पुनस्त्वादित्यारुद्रावसवः समिन्धतांपुनर्ब्रह्माणोवसुनीथयज्ञैः ।

घृतेनत्वं तन्वं वर्धयस्वसत्याःसन्तुयजमानस्यकामाःस्वाहा ।

आदित्यरुद्रवसुब्रह्मभ्य इदंनममेतिसमिद्धोमःस्रुवेणाज्याहुतिर्वा अग्नौजलोपघातेपीदमेव

स्वस्यजी इनोमृतशब्दश्रवणेऽग्नयेसुरभिमतेचरुःपूर्णाहुतिर्वा प्रधानाहुतीनांस्विष्टकृतासंसर्गेसर्वप्रायश्चित्तम

पिण्डपितृयज्ञे अतिप्रणीतनाशेतत्राहोमपक्षेसर्वप्रायश्चित्तम होमपक्षेपुनःप्रणयनमपि

आपस्तम्बानांप्रायश्चित्तान्तेप्रणयनमेवनित्यम पिण्डपितृयज्ञलोपेवैश्वानरश्चरुः सप्तहोत्राख्यमहाहविर्होतेत्यादिमंत्रैःपूर्णाहुतिर्वा

श्रवणाकर्मसर्पबल्याश्वयुज्याग्रयणप्रत्यारोहणकर्मणामन्यतमलोपेप्राजापत्यकृच्छम ।

अकृताग्रयणस्यनवान्नभक्षणेऽग्नयेवैश्वानरायचरुः अष्टकालोपे उपवासः पूर्वेद्युः श्राद्धलोपेऽप्युपवासः

उपवासप्रत्याम्नाय एकविप्रभोजनवा अन्वष्टक्यालोपे एभिर्द्युभिःसुमना एभिरिंदुभिरिति ऋचःशतंजपः

सर्वत्रचरुस्थानेपूर्णाहुतिः दर्शपूर्णमासानारम्भे आलस्यादिनापूर्णाहुतिकरणेतुयागपर्याप्तंव्रीह्याज्यंदेयमितिगृह्याग्निसागरे

निषिद्धतिथ्यादौस्वभार्यागमने अयाज्ययाजने लशुनादिगणिकान्नाद्यभोज्यभोजनेनिषिद्धप्रतिग्रहेपुनर्मामैत्विन्द्रियं०

इमेयेधिष्ण्यास इति द्वाभ्याज्यहोमःसमिद्धोमोवाजपोवा गृहोपरिकपोतोपवेशनेदेवाःकपोत

इति पञ्चर्चसूक्तजपःप्रत्यृचमाज्यहोमोवापाकयज्ञतंत्रेण दुःस्वप्नदर्शनेयोमेराजन्युज्योवेति ऋचासूर्योपस्थानम

आतुरत्वनाशाययक्ष्मरोगनाशायवामुञ्चामित्वेतिसूक्तेनप्रत्यृचंचरोर्होमः यक्ष्मनाशायेदंनममेतिपञ्चसुत्यागः

षष्ठंस्विष्टकृदिति प्रोक्षणीप्रणीतास्थजलानांबिन्दुपातेस्त्रावेवा आपोहिष्ठेतितृचेनपुनःपूरणम

ततंमे अपस्तदुतायते इत्यृचाज्याहुतिः इध्माधानलोपेतस्याज्यभागोत्तरं स्मरणेविपर्यासप्रायश्चित्तंकृत्वेध्माधानंचकृत्वाप्रधानयागः

प्रधानयागोत्तरं स्मरणेग्निसमिन्धनरूपद्वारस्याभावाल्लोप एवेतिप्रायश्चित्तेनैवसिद्धिः अन्याङ्गेष्वप्येवमूह्यम ॥