०७ अन्वाहिताग्नेः

अथान्वाहिताग्नेः प्राकयागादनुगतौ अयाश्चेतिपूर्ववदग्निमुत्पाद्यपुनरन्वाधानंकृत्वाभूर्भुवः

स्वरित्यपस्थायसर्वप्रायश्चित्तंहुत्वास्थालीपाकंकुर्यात

अन्वाधानोत्तरंप्रयाणप्राप्तौ तुभ्यंता अंगिरस्तम इत्याज्याहुतिमग्नयेहुत्वासर्वप्रायश्चित्तंहुत्वाग्निंसमारोप्यगच्छेत

समारूढसमिन्नाशेपुनराधेयमिष्यते ।

उपलेपादिकंकृत्वानष्टाग्निप्रायश्चित्तंपुनराधेयंसंकल्प्य आधानोक्तसंभारान्निधायाग्नि प्रतिष्ठाप्य

अयाश्चेतिस्रुवाज्याहुतिसर्वप्रायश्चित्तंचजुहुयादितिपुनराधेयम

स्वाग्निभ्रमेणान्याग्नौस्वयंयजनेस्वाग्रावन्ययजनेवापथिकृत्स्थालीपाकंकरिष्य

इति संकल्प्यचरुः कार्योथवापथिकृत्स्थाने पूर्णाहुतिंहोष्यामीति

संकल्प्यस्रुचिद्वादशवारंचतुर्वारंवाज्यंगृहीत्वा अग्नयेपथिकृतेस्वाहेतिजुहुयात

विवाहोत्तरमाधानोत्तरंवापौर्णमास्यांस्थालीपाकारम्भः

प्रतिपदियागोतिक्रान्तश्चेदागामिपर्वपूर्वतिथिषुचतुर्थीनवमीचतुर्दशीद्वितीयापञ्चम्यष्टमीर्विहायकार्यः

नात्रकालातिक्रमप्रायश्चित्तम अन्वाधानोत्तरंप्रतिपदीष्ट्यकरणेतृतीयादितिथिषुसर्वप्रायश्चित्तंहुत्वापुनरन्वाधाययागः

द्वितीयपर्वप्राप्तौ अतीतेष्टिः पथिकृच्चरुपूर्वकंपर्वणिकारा तत्राप्यतिक्रमेद्वितीयप्रतिपदिलुप्तेष्टेःपादकृच्छ्रं कृत्वाप्राप्तकालयागः

द्वितीययागस्यापि आगामितिथिषुलोपेतत्पर्वणिपादकृच्छ्रपथिकृत्पूर्वकंद्वितीययागः

तत्राप्यतिक्रमेतृतीयप्रतिपदि अर्धकृच्छ्रंयागद्वयस्यकृत्वाप्राप्तयागः

तृतीययागस्योक्ततीथावर्धकृच्छ्रपथिकृत्पूर्वकंचतुर्थपर्वणिवा अकरणे अग्निनाशात्पुनराहेयम

अत्रपुनराधेयस्वरूपंसंभारनिधानपूर्वकमयाश्चेतिस्रुवाज्याहुत्यातरित्यन्वारूढसमिन्नशस्थले उक्तमेव

पुनराधानंतुविवाहहोमादिरूपं पुनराधेयाद्भिन्नम

आयतनाद्बहिःशम्यापरासात्प्राकवह्निपाते इदंत एकमित्यृचातमायतनेप्रक्षिप्यसर्वप्रायश्चित्तंजुहुयात

पर्वणिव्रतलोपेग्नयेव्रतपतयेचरुःपूर्णाहुतिर्वा

पर्वणिदंपत्योरन्यतराश्रुपातेग्नयेव्रतभृतेचरुःपूर्णाहुतिर्वापवित्रनाशेऽग्नयेपवित्रवतेचरुःपूर्णाहुतिर्वा अन्वाधानेष्टिमध्येचन्द्रग्रहणे

अत्राहतोरितिचन्द्रायाज्यंहुत्वानवोनवो इत्युपस्थायेध्माधानादियागः

सूर्योपरागे उद्वयमितिसूर्यायाज्यंहुत्वाचित्रंदेवानामित्युपस्थानम अन्वाधानोत्तरं स्वप्नेरेतोविस

र्गे इमंमेवरुणतत्वायामीतिवरुणायद्वे आज्याहुतीरविपूजापुनर्मामेतिसौत्रमन्त्रयोर्जपश्चबुद्ध्यारेतोविसर्गेग्निव्रतपतिचरुः

अन्यदास्वप्नेरेतोविसर्गेसूर्यनमस्कारत्रयम

इध्माधानोत्तरंहविदोर्षेदुष्टस्थाने आज्यंप्रत्निधिंकृत्वायागंसमाप्यदुष्टजलेत्यक्त्वान्वाधानादिस्तद्देवताकःपुनर्याग

इध्माधानत्पूर्व हविर्दोषेतद्देवताकंहवःपुनरुत्पाद्ययागस्विष्टकृदर्थहविर्दोषे आज्येनस्विष्टकृतंकुर्यात अङ्गहविर्दोषेतदाज्यंपुनरुत्पादयेत ।