०५ समारोपोत्तरंदंपत्योः

समारोपोत्तरंदंपत्योःप्रवासेसीमानद्योरुल्लुङ्घनकाले उभाभ्यामन्यतरेणवासमिदाद्यन्वारम्भः कार्यः अन्यथाग्निनाशः

यजमानस्यैवप्रवासेकृत्यम अभयंवोभयंमेस्विति अग्निमुपस्थायप्रवासंगच्छेत तत

आगत्यगृहामाबिभीतोपवःस्वस्त्येवोस्मासुचप्रजायध्वं माचवोगोपतीरिषतिमंत्रेनस्वगृहंनिरीक्ष्यगृहानहंसुमनसःप्रपद्येवीरघ्नोवीरवतःसुवीरान ।

इरांवहंतोघृतमुक्षमाणास्तेष्वहंसुमनाः

संविशामीतिगृहंप्रविष्यशिवं शग्मंशंयोःशंयोरितिपुनस्त्रिरनुवीक्ष्यनित्यहोमान्ते अभयंवोभयंमेस्त्वित्यग्निमुपतिष्ठेत

ज्येष्ठपुत्रशिरःपाणिभ्यांपरिगृह्य अङ्गादंगात्संभवसीतिमंत्रंजपित्वामूर्धानंत्रिर्जिघ्रेत

एवमितरपुत्राणांप्रतक्तकन्यानांतूष्णीजिघ्रेत प्रवासादागतंप्रतिज्ञा अतमपि अप्रियंतद्दिनेनवदेयुः ॥

प्रोषितेपत्यौपत्नीस्मार्तहोमौस्वयंकृत्वादर्शपुर्णमासस्थालीपाकपिण्डपितृयज्ञान्विप्रेणकारयेत

अनुगतप्रायश्चित्तादिपत्न्यारजस्वलायामपि ऋत्विक्कुर्यात पुनःसंधानंतुपत्यौप्रोषितेनभवेत

नैमित्तिकाजातेष्टिगृहदाहेष्टयोपिनभवन्ति प्रायश्चित्तेष्टेः पूर्णाहुतिः ॥