०४ समारोपः

अथ समारोपः ।

“अयम् ते योनिः” इत्य् अस्य
विश्वामित्रोऽग्निः अनुष्टुप् अग्नि-समारोपे वि० ।

अनेन मंत्रेण होमोत्तरम् अरणीम् अश्वत्थ-समिधं वा प्रताप्य
अग्नि-समारोहं तत्र भावयेत् ।

होमादि-काले अरणीं निर्मथ्य
“प्रत्यवरोहेति” मंत्रेण स्थण्डिलेऽग्निं प्रतिष्ठापयेत् ।

समित्-समारोपे श्रोत्रियागाराद् अग्निं प्रतिष्ठाप्य “प्रत्यवरोहेति” मंत्रेण ताम् समिधम् अग्नौ आदध्यात् ।

सूत्रान्तरे “आजुह्वान” “उद्बुध्यस्वेति” मंत्राभ्याम् प्रत्यवरोहणम् । प्रत्यहं समारोपादि द्वादश-दिनम् एव । +++(5)+++

पर्वणि सायं-होम-काल-पर्यन्तम् प्रत्यवरोहणाभावे ऽग्नि-नाशः

इति केचित् ।
समारोप-प्रत्यवरोहौ यजमान-कर्तृकौ एव ।

तेन समारोपोत्तरम् पर्वण्य् आशौच-प्राप्तौ
प्रत्यवरोहासंभवाद् अग्नि-नाशः ।
इदम् आपस्तम्बादि-परम् ।

आश्वलायनानाम् तु द्वादश-रात्र-मध्ये पर्वणि प्रत्यवरोहणाभावेऽपि नाग्नि-नाशः
किन्तु द्वादश-रात्रोत्तरम् होम-लोपः एवेत्य् अपरे । +++(4)+++

राज-क्रान्त्यादि-संकटे ऋत्विग्द्-वारापि समारोपादि केचिद्

ऋत्विग्-आद्य्-अभावेन +अनन्य-गतिकत्वे
आशौच-पातात् पूर्व-पर्व-होम-सहितान् अपि होमान् अपकृष्य कृत्वा
न कृत्वा वा
समारोपं कृत्वा
सूतकान्ते प्रत्यवरोहः कार्यो
नात्र पर्व-उल्लङ्घन-दोषः

इति आहुः ॥