०१ होमद्रव्याणि

अथहोमद्रव्याणिव्रीहिश्यामाकयवानांतण्डुलाःपयोदधिसर्पिर्यवव्रीहिगोधूमप्रियंगवःस्वरूपेणापिहोम्याः

तिलास्तुस्वरूपेणैव तण्डुलादयः शतसंख्याहस्तेनहोतव्याः दध्यादिद्रवद्रव्यं स्रुवेण सर्वत्रोत्तराहुतिःपूर्वतोभूयसी

समिधश्चार्कपकाशखदिरापामार्गपिप्पलोदुम्बरशमीदुर्वादर्भमयादशद्वादशाङ्गुलाःसत्वचः वटप्लक्षबिल्वादिजाहेमाद्रौ

होमाहुत्योःसंसर्गे यत्रवेत्थेतिमन्त्रेणाग्नयेसमिध्दोमः नित्यहोमेत्वतिक्रान्ते आज्यंसंस्कृत्यचतुर्गृहीत्वामनोज्य्तिर्जुषतामिति

जुहुयात द्वादशदिनपर्यन्तंहोमलोपे इदमेवप्रायश्चित्तम ततः परमग्निनाशः

एवं होमलोपप्रायश्चित्तकृत्वातिक्रान्तहोमार्थद्रव्यंसंस्कृत्यसायंप्रातः क्रमेणद्वेद्वे आहुतीदिनगणनयाजुहुयात अग्निसूर्य

प्रजापतीनुपतिष्ठेन्नवाजुहुयात्प्रायश्चित्तेनचारितार्थ्यात सूतकादिनाहोमलोपेप्येवम हिरण्यकेशीयानामप्येवम

आपस्तम्बादीनांत्रिरात्रात्परमग्निनाशोभवतीतिसूतकेपिस्वयंहोमःकार्यः

समारोपोत्तरंसूतकपातेप्रत्यवराहोसंभवेनत्रिरात्रंहोमलोपेपुनराधानम्‍ ॥