८८ औपासनहोमः

अथौपासनहोमः स्वयंहोमोमुख्यः अशक्तौपत्नीपुत्रःकुमारीभ्राताशिष्योभगिनेयोजामाता ऋत्विग्वा

पुत्रादिर्दम्पत्योः संनिधाने एकतरसंनिधानेवाजुहुयात त्यांगयजमानः पत्नीवाकुर्यात

तस्या असंनिधौतदाज्ञया ऋत्विगादिरपि पत्न्या ऋतुप्रसवोन्मादादिदोहेतुतदाज्ञांविनापि ऋत्विगादिस्त्यांगकुर्यात

स्वयंहोमेफलंयत्स्यादन्यैर्होमेतदर्धकम । पर्वणितुस्वयमेवजुहुयात तत्रप्रातःसूर्योदयात्प्राकसायंसूर्यास्तात्प्राक

अग्नीनांगृह्याग्नेर्वाप्रादुष्करणंकृत्वासूर्योदयास्तोत्तर्होमःकार्यः प्रादुष्करणकालातिक्रमे

ॐभुर्भूवःस्वःस्वाहेतिमंत्रेणस्त्रुवाज्याहुतिरूपंसर्वप्रायश्चित्तमाज्यसंस्कारपूर्वकंकृत्वाहोमः

सूर्योदयोत्तरंदशघटिकापर्यन्तप्रातर्होमकालोमुख्यः तत आसायंगौणः सायंनवनाडिकापर्यन्तंमुख्यः

तत आप्रातर्गौणः मुख्यकालातिक्रमेकालातिक्रमानिमित्तप्रायश्चित्तपूर्वकमुकहोमंकरिष्ये

इति संकल्प्याज्यंसंस्कृत्यस्रुचिचतुर्गृहीतंगृहीत्वासायंकालेदोषावस्तर्नमः

स्वाहेतुहुत्वाप्रातस्तुप्रातर्वस्तर्नमःस्वाहेतिहत्वाहौम्यंसंस्कृत्यनित्यहोमः

श्रौतंहोमंकृत्वास्मार्तः होमः केचित्स्मार्तहोमंपूर्वमाहुः आधानेपुनराधानेसायमुपक्रमोहोमः

सायंप्रातर्होमयोर्द्रव्यैक्यंकर्त्रैक्यंच प्रातर्यजमानःकर्तचित्कृर्तृभेदोनदोषाय ॥