८४ गायत्रीजपः

अथगायत्रीजपः प्राणायामंकृत्वा गायत्र्याविश्वामित्रःसवितागायत्री जपेवि० तत्सतुर्ह्रदयायनमः

वरेण्यंशिरसेस्वाहा भर्गोदेवस्यशिखायैवषट्‌ धीमहिकवचायहुम धियोयोनोनेत्रत्रयायवौषट प्रचोदयात

अस्त्रायफट इति षडङ्गन्यासःकार्यः नवाकार्योन्यासविधेरवैदिकत्वादितिगृह्यपरिशिष्टेस्पष्टम

एतेनाक्षरन्यासपादन्यासादीनांमुद्रादिविधेः शापमोचनादिविधेश्चतान्त्रिकत्वेनावैदिकत्वादनावश्यकत्वं वेदितव्यम

मंत्रदेवतांध्यायेत केचिद्गायत्रयादिध्यानंवदन्ति आगच्छवरदेदेविजपेमेसन्निधौभव ।

गायन्तंत्रायसेयस्माद्गायत्रीत्वं ततःस्मृता १ इति तामावाह्ययोदेवःसवितास्माकंधियोधर्मादिगोचरे ।

प्रेरयेत्तस्यतद्भर्गस्तद्वरेन्यमुपास्महे १ इति मंत्रार्थचिन्तयन मौनीप्रातःसूर्याभिमुखस्तिष्ठन्नामण्डलदर्शनात्सप्रणवव्याह्रतिकायाः

गायत्र्यया अष्टशतमष्टाविंशतिदशकंवाजपेत सायंवायव्याभिमुख आनक्षत्रदर्शनादितिविशेषः

अनध्यायेऽष्टाविंशतिप्रदोषेदशैवजपेदितिकारिकायाम रुद्राक्षविद्रुमादिमालाभिरङ्गुलीपर्वभिर्वाजपः

अष्टशतंचतुःपञ्चशतसप्तविंशतिर्वामालामणयः उत्तरन्यासंकृत्वोपस्थानम जातवेदसे० । तच्छंयो९ ।

नमोबह्मण इति मन्त्रैःसायंप्रातश्चोपतिष्ठेदितिपरिशिष्टमतम स्मृत्यन्तरेमित्रस्यचर्शणीत्यादिमित्रदेवताकैः

प्रातः इमंमेवरुनेत्यादिभिर्वरुणपदोपेतैः सायंसूर्योपस्थानमुक्तम प्राच्यैदिशेनम इन्द्रायनमः आग्नेय्यैदिशे०

अग्नयेनमः इत्यादिना द्शदिग्वन्दनान्ते संध्यायैनमःगायत्र्यैनमः सावित्र्यै० सरस्वत्यै० सर्वाभ्योदेवताभ्योनम

इति नत्वा उत्तमेशिखरेजातेभूम्यांपर्वतमर्धनि ।

ब्राह्मणैरभ्यनुज्ञातागच्छदेवियथासुखम १ इति विसृज्य भद्रंनो अपिवातयमनः

इति त्रिरुक्त्वाप्रदक्षिणंभ्रमन आसत्यलोकादापातालादालोकालोकपर्वतात ।

येसन्तिब्राह्मणादेवास्त्भ्योनित्यंनमोनमः १ इति भूम्युपसंग्रहंनमस्कृत्यद्विराचामेदिति ।