७१ आचमनविधिः

अथाचमनविधिः अप्रावृतशिरः कंठ उपविष्टः उपवीतीप्राङ्‍मुख

उदङ्‌मुखोवा अंगुष्ठमूलेनमुक्ताङ्गुष्ठकनिष्ठहस्तेनानुष्णंफेनादिरहितंजलंह्रदयंगतंत्रिः

पिबेत केशवाद्यैस्त्रिभिःपीत्वैकेनदक्षकरंमृजेत ।

द्वाभ्यामोष्ठौचसंमृज्य एकेनोन्मार्जयेच्चतौ १ जलमेकेनसंमत्र्यैकेनवामकरंमृजेत ।

एकेनदक्षिणंपादंवाममेकेनचैवहि २ संप्रोक्ष्यैकेनमूर्धानमूर्धोष्ठंनासिकाद्वयम ।

नेत्रयुग्मंश्रोत्रयुग्मंदक्षिणोपक्रमंक्रमात ३ नाभिंह्रदयमूर्धानौदक्षवामभुजौस्पृशेत ।

केचित केशवाद्यैस्त्रिभिःपीत्वाद्वाभ्यांप्रक्षालयेत्करौ ।

गण्डोष्ठौमार्जयेद्विर्द्विरेकैकंपाणिपादयोः १ यद्वा ओष्ठंमार्ज्योन्मृजेद्विर्द्विरेकैकंपाणिपादयोः ।

शेषंप्राग्वदित्याहुः तत्रोर्ध्वोष्ठस्यांगुल्यग्रेःस्पर्शः

अङ्गुष्ठतर्जनीभ्यांनासिकयोः अङ्गुष्ठानामिकाभ्यांनेत्रयोः अङ्गुष्ठकनिष्ठिकाभ्यांकर्णयोर्नाभेश्च

तलेनह्रदयस्य पाणिनामूर्घ्रः अङ्गुल्यैग्रर्भुजयोः एतावदाचमनविधावशक्तस्त्रिः

पीत्वाकरंप्रक्षाल्यदक्षिणकर्णस्पृशेत कांस्यायःसीसत्रपुपित्तलपात्रैर्नाचामेत श्रोताचमनंतुदेव्यास्त्रयः

पादा आपोहिष्ठेतिनवपादाःसप्तव्याह्रतयोदेवीपादत्रयंद्वेधाविभक्तंदेवीशिरश्चेतिचतुर्विंशतिस्थानानि ॥