देशकालौसंकीर्त्यममद्वाभ्यांभार्यासहनिष्पन्नगृह्याग्न्योस्ताभ्यांसहाधिकारसिद्धिद्वारा श्री०र्थ संसर्गकरिष्य
इति संकल्प्यस्वस्तिवाचनंकृत्वा उदगपवर्गस्थण्डिलेकृत्वादक्षिणेस्थण्डिलेज्येष्ठायागृह्याग्निमुत्तरेकनिष्ठायाः
गृह्याग्निप्रतिष्ठाप्यप्रथमाग्नौज्येष्ठपत्न्यान्वारब्धोऽन्वाधानंकुर्यात
अग्निद्वयसंसर्गार्थेप्रथमाग्रिहोमकर्मणिदेवतापरिग्रहार्थमन्वाधानंकरिष्ये
चक्षुषी आज्येनेत्यन्ते अग्निवभिराज्याहुतिभिःशेषेणेत्यादि अग्निमीळे इति नवानांमधुच्छन्दोग्निर्गायत्री
अग्निद्वयसंसर्गार्थप्रथमाग्नौप्रधानाज्यहोमे वि० अग्निमीळे इत्यादि नवभि ऋग्भिःप्रत्यृचंस्रुवेणनवाज्याहुतीर्जुहूयात
अग्नय इदमितिसर्वत्रत्यागः होमशेषंसमाप्य अयंतेयोनिरितिमन्त्रेणज्येष्ठाग्निसमिधिसमारोप्यप्रत्यवरोहेति
मन्त्रेणतंद्वितीयाग्नौप्रत्यवरोह्यध्यात्वापत्नीद्वयान्वारब्धोऽन्वाधानंकुर्यात
अग्निद्वयसंसर्गार्थेप्रथमसंसष्टद्वितीयाग्नौविहितहोमेदेवतापरिग्रहार्थमन्वाधानंकरिष्ये
आज्यभागान्ते अग्निप्रधानंषड्वारमाज्येनशेषेणत्यादि प्रोक्षणीकुशानदर्वीसुवौप्रणीताज्यपात्रे इध्माबर्हिषीत्यष्टौपात्राणि
सुचिचतुर्गृहीतमाज्यंगृहीत्वा पत्नीद्वयान्वारब्धोजुहुयात अग्नावग्निरित्यस्यहिरण्यगर्भोग्निरष्टी
अग्निद्वयसंसर्गार्थेसंसृष्टाग्नौ प्रधानाज्यहोमेविनि० अग्नावग्निश्चरतिप्रविष्ट ऋषीणांपुत्रो अधिराज एषः ।
तस्मैजुहोमिहविषाघृतेनमादेवानांमोमुहद्भागधेयंस्वाहा अग्न्य इदं० ।
एवमग्रेपि आज्यस्यसुचिचतुर्ग्रहणंविनियोगस्त्यागश्च अग्निनाग्निर्मेधातिथिःकाण्वोग्निर्गायत्री अग्निनाग्निःसमिध्यते० ।
अस्तीदमितितिसृणांविश्वामित्रोग्निरनुष्टुप अन्त्येत्रिष्तुभो अस्तीदमधि० । अरण्यो० । उत्तानायाम० ।
पाहिनो अग्न इत्यस्यभर्गःप्रगाथोग्निर्बृहती पाहिनो० भिर्वसोस्वाहा । होमशेषंसमाप्याहिताग्नयेगोयुग्मंदत्त्वाविप्रानभोजयेत
इत्यग्निद्वयसंसर्गप्रयोगः पत्न्योरेकायदि मृतादग्धावेनैवतापुनः । आदधीतान्ययासार्धमाघानविधिनागृही ॥१॥