६१ मण्डपोद्वासनोत्तरंकार्याकार्यविचारः

अथमण्डपोद्वासनोत्तरंकार्याकार्यविचारः । नस्नायादुत्सेवऽतीतेमङ्गलंविनिवर्त्यवच ।

अनुव्रज्यसुह्रद्वन्धूनर्चयित्वेष्टदेवताम्‍ १ स्नानंचैलंतिलमिश्रकर्मप्रेतानुयानंकलशप्रदानम ।

अपूर्वतीर्थामरदर्शनंचविवर्जयेन्मङ्गलतोऽब्दमेकम २ मासषटकंविवाहादौव्रतप्रारम्भणेपिच ।

जीर्णभाण्डादिनत्याज्यंगृहसंमार्जनंतथा ३ ऊर्ध्वविवाहात्पुत्रस्यतथाचव्रतबन्धनात ।

आत्मनोमुण्डनंचैववर्षवर्शार्धमेवच ४ मासमन्यत्रसंस्कारेत्रिमांचौलकर्मणि ।

पिण्डदानंमृदास्नानंनकुर्यात्तिलतर्पणम्‍ ५

अयंविवाहव्रतबन्धचौलोत्तरंवर्षषण्मासत्रिमासेषु अन्यवृद्धिश्राद्धयुतमङ्गलोत्तरंचमासमेकंपिण्डदानतिलतर्पणनिषेधस्त्रिपुरुषसपिण्दानामेव

एवं मुण्डननिषेधोपि व्रतोद्वाहौतुमङ्गलमितिपक्षे मौञ्ज्युत्तरंमुण्डननिषेधः व्रतबन्धस्यमुण्डनरूपत्वपक्षेतुननिषेधः

आत्मनोमुण्डनमिति कर्मागतयाप्राप्तंरागप्राप्तंवमुण्डनंनिषिध्यते अत्रापवादः गङ्गायांभास्करक्षेत्रेमातापित्रोर्मृताहानि ।

आधानेसोमयागादौदर्शादौक्षौरमिष्यते महालयेगयाश्राद्धेपित्रोः प्रत्याब्दिकेतथा ।

सपिण्ड्यन्तप्रेतकर्मश्राद्धषोडशकेष्वपि २ कृतोद्वाहादिकःकुर्यातपिण्डदानंचतर्पणम ।

केचिद्भातृपितृव्यादेराब्दिकेप्येवमूचिरे ३ एवं पिण्डपितृयज्ञे अष्टकान्वष्टकापूर्वेद्युःश्राद्धेषुनपिण्डदाननिषेधः

दर्शश्राद्धंत्वपिण्डकमेव तेनबव्हचानांव्यतिषषगोन इति मण्डपोद्वासनोत्तरंकार्याकार्यनिर्णयः ॥