५६ कन्यादानाङ्गमन्त्राः

अथ कन्यादानाङ्गत्वेनगवादिदानेमन्त्राः यज्ञसाधनभूतायाविश्वस्याघौघनाशिनी ।

विश्वरूपधरोदेवःप्रीयतामनयागवा १ इति गोः । हिरण्यगर्भसंभूतंसौवर्णचाङ्गुलीयकम ।

सर्वप्रदंप्रयच्छामिप्रीणातुकमलापतिः १ इत्यङ्गुलीयस्यः । क्षीरोदमथनेपूर्वमुद्धृतं कुण्डलद्वयम ।

श्रियासहसमुद्भूतंददेश्रीःप्रीयतामिति १ कुण्डलयोः काञ्चनंहस्तवलयंरूपकान्तिसुखप्रदम ।

विभूषणंप्रदास्यामिविभूषयतुमेसदा १ इति वलययोः परापवादपैशून्यादभक्ष्यस्यचभक्षणात ।

उत्पन्नपापंदानेनताम्रपात्रस्यनश्यतु १ इति ताम्रजलपात्रस्य यानिपापानिकाम्यानिकाम्योत्थानिकृतानिच ।

कांस्यपात्रप्रदानेनतानिनश्यन्तुमेसदा १ इति भोजनार्थकांस्यपात्रस्य अगम्यागमनंचैवपरदाराभिमर्शनम्‍ ।

रौप्यपात्रप्रदानेनतानिनश्यन्तुमेसदा १ इति जलार्थस्यभोजनार्थस्यचरौप्यपात्रस्यपूरितंपूगपूगेननागवल्लीदलान्वितम ।

पूर्णेनचूर्णपात्रेणकर्पूरपिष्टकेनच । सपूगखण्डनंदिव्यंगन्धर्वाप्सरसांप्रियम १ ददेदेवनिरातङ्कत्वत्प्रसादात्कुरुष्वमाम ।

इति ताम्बूलस्य एवं दासीमहिषीगजाश्वभूमिस्वर्णपात्रपुस्तकशय्यागृहरजतवृषभानांदानमन्त्राः कौस्तुभेद्रष्टव्याः ॥