५४ लग्नघटीस्थापनम्‌

अथ लग्नघटीस्थापनम्‌ । दशपलमितताम्रघटितंषडङ्गुलोन्नतंद्वादशाङ्गुलविस्तृतंघटीयंत्रंकुर्यादितिसिन्धुः

द्वादशार्धपलोन्मानंचतुर्श्विश्चतुरङ्गुलैः । स्वर्णमाषैःकृतच्छिद्रंयावत्प्रस्थजलप्लुतम

१ इति तुश्रीभागवतेतृतीयस्कन्धे उक्तम्‍ अस्यार्थः अशीतिगुञ्जात्मकः कर्षः अस्यैवसुवर्णसंज्ञा कर्षचतुष्टयंपलम्‍

तथाचषट्‌पलताम्रविरचितंपात्रंविम्शतिगुञ्जोन्मितसुवर्णनिर्मितचतुरङ्गुलदीर्घशलाकयामूलेकृतच्छिद्रंकुर्यात

तेनछिद्रेणयावत्प्रस्थपरिमितंजलंप्रविशतितेनचप्रस्थजलपूरणेनतत्पात्रंजलेमग्नंभवतितत्पात्रं घटीकालप्रमाणम्‍

तत्रप्रस्थमानंतुषोडशपलात्मकम्‍ पलंसूवर्णाश्चत्वारःकुडवप्रस्थमाढकम्‍

द्रोणंचखारिकाचेतिपूर्वपूर्वचवर्णोच्चारेपलसंज्ञःकालःषष्टिपलकालानाडिकेत्याहुः

एवं प्रमाणीकृतंघटीयंत्रसूर्यमण्डलस्यार्धोदयेर्धास्तेवाजलपूर्णेताम्रपात्रेमृत्पात्रेवाक्षिपेत तत्रमंत्रः मुख्यंत्वमसियन्त्राणांब्रह्मणानिर्मितंपुरा ।

भवभावायदम्पत्योःकालसाधनकारणम १ अनेनमन्त्रेणगणेशवरुणपूजनपूर्वकंघटीयन्त्रंस्थापयेत एवं स्थापिताघटी

आग्नेययाम्यनैरृतवायव्यदिग्गतानशुभा मध्यस्थितान्यदिग्गताचशुभा एवमाग्रेयदिपञ्चदिक्षुपूर्णांनशुभा इति घटीविचारः ॥