पञ्चविंशतिदर्भाणांवेण्यग्रग्रन्थिसंयुतोलम्बाग्रोविष्टरः संपाद्यः वरस्ययाभवेच्छाखातच्छाखागृह्यचोदितः ।
मधुपर्कःप्रदातव्योह्यन्यशाखेपिदातरि १ दधिमधुमिश्रं मधुपर्कः तत्र दध्यलाभेपयोजलंवा मध्वलाभेसर्पिर्गुडोवाप्रतिनिधिः
गृहागतंस्नातकंवरंमधुपर्केणार्हयिष्य इति संकल्पः वरस्यद्वितीयोद्वाहेतुस्नातकमितिपदलोपः
ततोयथागृह्यंमधुपर्कप्रयोगोज्ञातव्यः एवं गुरुःश्रेष्ठविप्राःराजाचेतिगृहागतायज्ञेवृता ऋत्विजश्र मधुपर्केणपूजनीयाः
ऋत्विगादीनामपि अर्च्यशाखयैवमधुपर्कोनतुदातृशाखया जयन्तस्तु सर्वत्रयजमानशाखयैवमधुपर्क
इत्याह अत्रगन्धपुष्पधूपदीपपूजान्ते उपहारोमाषविकारसहितोभोजनार्थदेयः एवं मधुपर्के
तत्पूर्वं वाकृतभोजनायैववरायोपोषितोदाताकन्यांदद्यात ॥