दत्तकन्यायाविवाहंकुर्वनप्रतिग्रहीतापितास्वपित्रादीनुद्दिश्यैवकुर्यात दत्तकस्तुपुत्रो
यदि अधिकार्यन्तराभावाल्लब्धजनकपितृधनस्तदाजनकपित्रादीनप्रतिग्रहीतृपित्रादीश्चपितरौपितामहौप्रपितामहौचनान्दीमुखा इत्येवमुच्चार्यश्राद्धंकुर्यात
एवं मातृपार्वणेमातामहपार्वनेचद्विवचनप्रयोग ऊह्यः
यदितुजनकधनग्रहणेधिकार्यन्तरसत्त्वादलब्धजनकधनस्तदाप्रतिगृहीतृपित्रादीनेवोहिश्यकुर्यातूनपितृद्वयोद्देशेन
अत्रसर्वत्र संभ्रमेणक्वचित्क्वचिन्मातृपार्वणपितृपार्वणयोःक्रमवैपरीत्यपातेऽपिसक्रमोनविवक्षितः
सर्वत्रनान्दीश्राद्धेषुपूर्वमातृपार्वणंततःपितुःपार्वणंततोमातामहस्येति क्रमस्यनिश्चितत्वात
बहुचकात्यायनैर्मातृपितामहीप्रपितामह्य इत्यादिनानुलोम्येन पार्वणत्रयेप्युच्चारः
तैत्तिरीयादिभिस्तुप्रपितामहपितामहपितर इत्येवमादिनाव्युत्क्रमेणोच्चारःकार्यः
एकसंस्कार्यस्यानेकसंस्काराणांसहानुष्ठानेनान्दीश्राद्धंसकृदेव एवं यमलयोर्द्वयोः पुत्रयोः
कन्ययोवीविवाहोपनयनादिसंस्काराणांसहैवानुष्ठानेपिनान्दीश्राद्धंसकृदेवयमलयोः
संस्काराणामेकमण्डपे एककाले एकेनकर्त्रासहकरणेदोषोनेत्युक्तम नान्दीश्राद्धे अन्नाभावे आममामाभावेहिरण्यंदद्यातहिरण्या
भावेयुग्मब्राह्मणभोजनपर्याप्तान्ननिष्क्रयीभूतयथाशक्तिकिंचिद्रव्यंस्वाहानप्रमेतिवदेत
अन्यःसर्वोपिविशेषोगर्भाधानप्रकरणेविस्तरेणोक्तस्तत एवानुसंधेयः इति नान्दीश्राद्धम
ततोमण्डपदेवतास्थापनंग्रहयज्ञश्चस्वस्तिवाचनात्पूर्वनान्दीश्राद्धोत्तरंवाकार्यः ॥