४९ यदातुकन्याविवाहंपुत्रस्योपनयनं

यदातुकन्याविवाहंपुत्रस्योपनयनंप्रथमविवाहंचपितृव्यमातुलादिः

करोतितदासंस्कार्यस्यमृतपित्रुकत्वे अस्यसंस्कार्यस्यपितृपितामहप्रपितामहा इत्यादिप्रयोगंकुर्यात

सोदरभ्रातुर्नोच्चारेविशेषः भ्रातुःपित्रादीनां संस्कार्यपित्रादीनांचैक्यात सापत्नभ्रातातुसंस्कार्यस्यमातृपितामहीप्रपितामह्य

इत्याद्युच्चारयेत संस्कार्यमातृजीवनेतत्पार्वणलोपः संस्कार्यस्यजीवत्पितृकत्वेमातुलादिःकर्ता

संस्कार्यपितुःमातृपितामहीप्रपितामह्यः संस्कार्यपितुःपितृपितामहप्रपितामहा

इत्याद्युच्चार्यतत्पितुःपित्रादिपार्वणत्रयंकुर्यात संस्कार्यस्यपितृपितामहयोर्जीवनेमातुलादिः

संस्कार्यस्य पितृर्मात्रादीनमातामहादीश्चोद्दिश्यपार्वणद्वयंकुर्यात पितुर्वर्गद्वयाद्यजीवने एकैकवर्गपार्वणम

पितुर्वर्गत्रयाद्यजीवनेमातुलादिःपितामहस्यमात्रादिपार्वणत्रयोद्देशं कुर्यात पितामहस्यमात्रादि जीवनेतत्पार्वणलोपः

पूर्ववत पितृव्येजीवत्पितृकसंस्कारकर्तरिनोच्चारेविशेषः संस्कार्यपितुःपित्रादीनांपितृव्यस्यपित्रादीनां चैक्यात

पितामहस्यसंस्कर्तृत्वेसंस्कार्यपितृमरणे संस्कार्यस्य

पितःममपितृपितामहौचनान्दीमुखाःसंस्कार्यस्यमात्रादयोमातामहादयश्चेत्याद्युच्चारः

संस्कार्यपितृजीवनेपितामहःकर्तास्वमातृपितृमातामहपार्वणानिममेतिपदरहितानि तत्सहितानिवोच्चारयेत एवं प्रपितामहेकर्तर्यपि

योज्यम ॥