४५ विवाह संकल्पः

एवं वरस्यपित्रादिःपत्‍न्यासंस्कार्येणचसहकृताभ्यङ्गस्नानोऽहतवासाःप्राङ्मुख

उपविश्यस्वदक्षिणेपत्‍नींतद्दक्षिणेसंस्कार्यमुपवेश्यदेशकालौसंकीर्त्यममास्यपुत्रस्यदैवपित्र्य ऋणापाकरणहेतुः

धर्मप्रजोत्पादनासिद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थविवाहाख्यंसंस्कारकर्मकरिष्ये

तदङ्गत्वेनस्वस्तिवाचनंमातृकापूजनंनान्दीश्राद्धंनान्दिन्यादिमण्डपदेवतास्थापनंचकरिष्ये

तदादौनिर्विघ्नतासिद्ध्यर्थंगणपतिपूजांकरिष्ये इति पुत्रविवाहेसंकल्पः कन्याविवाहेतुजातकर्मादिलोपे

ममास्याःकन्यायाःजातकर्मनामकर्मसूर्यावलोकननिष्क्रमणोपवेशनान्नप्राशनचौलसंस्काराणांबुद्धिपूर्वकलोपजन्यप्रत्यवायपरिहारार्थं

प्रतिसंस्कारमर्धकृच्छ्रंचूडायाःकृच्छ्रंतत्प्रत्याम्नायगोनिष्क्रयीभुतयथाशक्तिरजतदानेनाहमाचरिष्ये

गर्भाधानसीमन्तयोर्लोपेतयोरप्यूहः ततो ममास्याः कन्यायाःभर्त्रासहधर्मप्रजोत्पादनद्रव्यपरिग्रहधर्माचरणेष्वधिकारसिद्धिद्वारा

श्रीपरमेश्वरप्रीत्यर्थविवाहाख्यंसंस्कारंकरिष्य इति विशेषः शेषंपूर्ववत भ्राताममभ्रातुरिति भगिन्या इति वा

पितृव्यादिःकर्ताममभ्रातृसुतस्यभ्रातुकन्याया इति वासंकल्पोहुकंर्यात

वरवध्वोःस्वयंकर्तृत्वेममदैवपित्र्य ऋणेत्यादिममभर्त्रासहेत्यादिचसंकल्पः

केचित्व्स्वस्तिवाचनकालेकन्यादानादिकालेवाप्रधानविवाहसंस्कारसंकल्पंनकुर्वन्तिसप्रमाद इति बहवः

अन्येतुकन्यादानविवाहहोमादिसंकल्प एवप्रधानसंकल्पस्तदतिरिक्तविवाहपदार्थाभावादित्याहुः

मातृकापूजान्तेमृतपितृमातृमातामहोवरवध्वोः पितास्वप्त्राद्युद्देश्यकपार्वणत्रययुतंनान्दीश्राद्धंकुर्यादित्यसंदिग्धम

मातर्येवजीवन्त्यांतत्पार्वणलोपः मातामहमात्रजीवनेतत्पार्वणमात्रलोपः तयाचोभयत्रपार्वणद्वयेनैवनान्दीश्राद्धसिद्धिः

मातृमातामहयोर्जीवनेपितृपार्वणेनैवतत्सिद्धिः पितृप्रपितामहमृतौपितामहजीवनेचपितृप्रपितामहतपितृनुद्दिश्यपितृपार्वणम

तथाचपितृप्रपितामहतत्पितरोनांदीमुखा इदंवःपाद्यमित्यादिप्रयोगः प्रपितामहमात्रजीवनेपितृपितामहतत्पितामहा इत्युद्देशः

पितृमृतौपितामहप्रपितामहजीवने पिताःपितामहस्यपितामहप्रपितामह्यौचनान्दीमुख्या इत्युच्चारः

प्रपितामहीमात्रजीवनेमातृपितामह्यौ पितुःप्रपितामहीचनान्दीमुख्या इत्युच्चारः

पितामहीप्रपितामह्योर्जीवनेमातःपितामहस्यपितामहीप्रपितामह्यौचेत्युच्चारः मुख्यमातृजीवनेसपत्‍नमातृमरणेपिनमात्रुपार्वणम

एवं मुख्यपितामहीजिवनेपितामह्याः सपत्‍नीमृतावपितयासहनमातृपार्वणंकिंतुपुर्वोक्त एवोच्चारः

एवं प्रपितामहीसपत्नीविषयेपि एवं मुख्यमातामहीजीवनेतसपत्न्यादिमरणेपिनमातामहादीनांसपत्नीकत्वेनोच्चारःकिंतुकेबलानामेव

दर्शादौमातृजीवनेसापत्नमातुर्मृतौकेवलानामेवपित्रादिनामुद्देश इति सिध्दान्तात ।