३३ चन्द्रताराबलं

चन्द्रताराबलंकन्यावरयोरुभयोरपि । अन्यत्तरस्यचन्द्रबलाभावेरजतादिदानंकार्यम्‍ मेषःकन्याघटःसिंहोनक्रंयुग्मंधनुर्वृषः ।

मीनःसिंहोधनुःकुम्भोऽजादीनांघातचन्द्रमाः १ यात्रायांयुद्धकार्येषुघातचन्द्रंविवर्जयेत । विवाहेसर्वमाङ्गल्येचौलादौव्रतबन्धने ॥२॥

घातचन्दौनैवचिन्त्योयज्ञेसीमन्तजातयोः । मृत्युयोगेपारिघार्घेभद्रायांपातवैधृतौ ॥३॥

विष्कम्भादेर्दुष्टभागेतिथिवृद्धिक्षयेपिच । यामार्धकुलिकादौचगण्डान्तरेविसंक्रमे ॥४॥

केतूद्गमेभूमिकम्पेविवाहाद्यंचिवर्जयेत । ग्रहणेपादादिग्रासेत्रिचतुःषडष्टदिवसाःप्रागर्धितावज्याः

भूकम्पे उल्कापातेच त्रिदिनंवज्रपातेचैकंदिनंवर्ज्यम्‍ यावत्केतूद्गमस्तावदशुभः समयोभवेत ।

अस्यापवादः भूकम्पादेर्नदोषोस्तिवृद्धिश्राद्धेकृतेसति । दिवाविवाहःप्रशस्तः रात्रावपिकन्यादानंहेमाद्यादिमतेप्रशस्तंभवति ॥