३० वधूवरयोर्मूलजत्वादिगुणदोषाः

मूलनक्षत्राद्यपादत्रयजतौवधूवरौस्वस्वश्वशुरंनाशयतः आश्लेषान्त्यपादत्रयजातौश्वमुश्रुम

ज्येष्ठान्त्यपादाजतावन्योन्यज्येष्ठभ्रातरम् विशाखान्त्यपादजातावन्योन्यकनिष्ठभ्रातरम

मघाप्रथमापादेमूलवत्फलंकेचिदाहुः

केचिदुपनयनस्यद्वितीयजन्मरूपत्वात्तेनचद्वितीयजन्मनापूर्वजन्मसंभवमूलादिदोषस्यनिरस्तत्वाद्वरस्यश्वशुरघातित्वादिदोषोनेत्यपवादंसंकटेवदन्ति

श्वशुराद्यभावेवध्वा अपिनदोषः नर्क्षवृक्षनदीनाम्नींनान्त्यापर्वतनामिकाम ।

नप्रक्ष्यहिप्रेष्यनाम्नीनाविभीषणनामिकामुद्वहेदिति वरायपुंस्त्वं परीक्ष्यकन्यादेया

यस्याप्सुप्लवतेबीजंह्मादिमूत्रंचफेनिलमित्यादिपुंस्त्वपरीक्षा कुलंचशीलंचवपुर्वयश्चविद्यांचवित्तंससनाथतांच ।

एतान्गुणानसप्तपरीक्ष्यदेयाकन्याबुधैःशेषमचिन्तनीयम १ इति वधुवरयोर्मूलजातत्वादिगुणदोषनिर्णयः ॥