२८ परिवेत्रादिविचारः

दाराग्निहोत्रसंयोगंकुरुतेयोऽग्रजेस्थिते । सकनिष्ठःपरिवेत्ताज्येष्ठःपरिवितिः एवं ज्येष्ठायामनूढायांकनिष्ठकन्योद्वाहे

ज्येष्ठाकन्यादिधिषुः कनिष्ठाग्रेदिधिषुः अत्रप्रायश्चित्तम अज्ञानतःपित्रादिदत्तोद्वाहेभ्रात्रोःपरिवेत्तृपरिवित्तिसंज्ञयोःकृछ्रद्वयं

कन्यायाःक्रुच्छ्रंदातुरतिकृच्छ्रंयाजकस्यचांद्रायणम ज्ञानतःपित्राद्यदत्तोद्वाहेसर्वेशांवत्सरंकृच्छ्राचरणम

कामतःपित्रादिदत्तोद्वाहेत्रैमासिकम अज्ञानेनादत्तोद्वाहेचांद्रायनादि दिढिष्वादिपतेरतिकृच्छ्रकृच्छौ अत्रापवादः

सात्नेदत्तकेवाज्येष्ठेकनिष्ठस्यदाराग्र्निहोत्रग्रहणेदोषोन

सोदरेपिक्लीबेमूकबधिरवामनभग्नपादत्वादिदोषयुतेदेशांतरस्थेवेशयसक्तेपतितेमहारोगिण्यतिवृद्धेक्रुषिसक्तेधनव ऋद्धिराजः

सेवादिव्यापारासक्तेचौर्यासक्ते उन्मत्तेविवाहाग्निहोत्रेच्छानिवृत्तेचज्येष्ठेकनिष्ठस्यदाराग्निहोत्रग्रहणेदोष ओन

देशांतरगतंज्येष्ठमष्टौद्वादशवावर्षाणिकनिष्ठःप्रतीक्षेत एवं कन्याया अपिज्येष्ठायाभिन्नमातृजत्वेकनिष्ठायाविवाहेदोषोन

एवं मूकत्वादिदोषयुतायांज्येष्ठायामूह्यम् इति पतिवेत्रादिनिर्णयः ॥