२४ क्षयपक्षादिविचारः

अथक्षयपक्षादिविचारः पक्षमध्येतिथिद्वयस्यक्षयेणयस्त्रयोदशदिनात्मकःपक्षःसक्षयपक्षः

तदाबहुप्रजासंहारोराजसंहारोवा क्षयपक्षेचौलोपनयनोद्वाहादिवस्तुकर्मादिशुभंनकार्यम्

क्षयमासाधिमासगुरुशुक्रास्तादौविवाहनिषेधःप्रथमपरिच्छेदे एवं सिंहस्थगुरुनिषेधनिर्णयोपिप्रथमपरिच्छेदेद्रष्टव्यः

क्षयस्म्वत्सरोपिनिषिद्धः शीघ्रगत्यापूर्वराशिशेषमतिक्रम्यराश्यन्तरसंचारोतिचारस्तंप्राप्तोगुरुः

पुनःपूर्वराशिंवक्रगत्यायदिनायातितदासकषयसंवत्सरःसर्व कर्मसुवर्ज्यः तत्रमेषवृषभवृश्चिककुम्भमीनराशिषु

नदोषः केचिद्गोदादक्षिणदेशेकोप्यतिचारादिगुरुदोषोनेत्याहुः

इति क्षयपक्षादिविचारः ॥