२२ कूश्माण्डहोमः

कूश्माण्ड-होमादिना
ऽशुद्धिपूर्वकं सूतक-मृतकयोर् मध्ये आरब्धे विवाहादौ
विप्राणां पूर्वसंकल्पितान्नभोजने
दोषो न।

पाक-परिवेषणादिकम् अपि सूतकिभिः कार्यं
होमादिविधिना शुद्धि-संपादनाद्
इति कौस्तुभे स्थितम्।
नैतद् युक्तं लोकविद्विष्टत्वाद्,
अतः परगोत्रैर् एवान्न-दानं युक्तं भाति।
नान्दी-श्राधोत्तरं सूतक-मृतकयोः

पाप्तौपूर्वमन्नसंकल्पाभावेपिविवाहोत्तरकालसंकल्पितान्नभोजनंविप्रैकार्यम् अत्रापि

परैरन्नंप्रदातव्यंभोक्तव्यंचद्विजोत्तमैरितिसर्वसंमतम परैरसगोत्रैरितिसिन्धुमयूकादौव्याख्यानात्

पूर्वसंकल्पितान्नस्यापिभोजनसमयेसूतकप्राप्तौभोक्तृर्भुक्तशेषंत्यक्त्वापरगृहोदकैराचन्ततादिविधेयम पाकशेषः

सूतकिभिर्भोक्तव्यः भुञ्जोनेषुचविप्रेषुत्वन्तरामृतसूतके ।

अन्यगेहोदकाचान्ता इति स्मृतेः नान्दीश्राद्धोत्तरंभोजनादन्यकालेसूतकप्राप्तौसूतकिगृहेभोक्तव्यम्

भुञ्जानेषुसूतकप्राप्तौभोक्तभिः पात्रस्थमप्यन्नंत्याज्यमितिवाचानिक एवविशेषः नहिवचनस्यातिभार इति न्यायात

ममतुभुञ्जानेष्वितिवाक्यामारब्धानारब्धसर्वकर्मसु असंकल्पितान्नविषयमितिभाति

इति विवाहादौरजोदोषसूतकप्राप्तिनिर्णयः ॥