२१ विवाहादौरजोदोषसूतकनिर्णयः

अथविवाहादौरजोदोषसूतकनिर्णयः प्रारम्भात्प्रागारम्भोत्तरंवामातुः पितृव्यादेः

कर्त्रन्तरस्यपत्न्यावारजोदोषेयद्वक्तव्यंतद्रूतबन्धप्रकरणेविस्तरेणोक्तंतत एवज्ञेयम्

रजोदोषजननाशौचादिसंभावनायांनान्दीश्राद्धस्यापकृष्यानुष्ठानेदिनावधिः एकविंशत्यहर्यज्ञेविवाहेदशवासराः ।

त्रिषट्‌चौलोपनयनेनान्दीश्राद्धंविधीयते १ दशदिनाद्यतिक्रमेपुनर्नान्दीश्राद्धमित्यर्थात्सिद्धम् नान्दीश्राद्धोत्तरंसूतकमृतकयोः

प्राप्तौनविवाहादिप्रतिबन्धः विवाहव्रतयज्ञेषुश्राद्धेहोमेर्चनेजपे । आरब्धेसूतकंनस्यादनारब्धेतुसूतकम् १

प्रारम्भेवरणंयज्ञेसंकल्पोव्रतसत्रयोः ।

नान्दीमुखंविवाहादौश्राद्धेपाकपरिक्रिया २ इत्युक्तेः इदंसन्निहितमुहूर्तान्तराभावादिसंकटीवज्ञेयम्‍ संकटाभावेतु

नान्दीश्राद्धेजातेपिसूतकान्तेमुहूर्तान्तरे एवमङ्गलम् सर्वोप्याशौचापवादोऽनन्यगतिकत्वे आर्तौचज्ञेय इति सिन्धूक्तेः

तेनव्रतेसंकल्पोत्तरमाशौचेपिविप्रद्वारैवपूजादि

यज्ञादौमधुपर्कविधिनावरणोत्तरमपि ऋत्विगन्तरालाभादिकेऽनन्यगतौसंकटे एवचमधुपर्कविधिनावृतस्याशौचाभावः

एवं जपहोमादावप्यूह्यम् श्राद्धे पाकपरिक्रिया पाकप्रोक्षणम् एतदप्यार्तिसत्त्वे

महासंकटेप्रारम्भात्प्रागपिसूतकप्राप्तौकूश्माण्डमन्त्रैर्घृतहोमंकृत्वापयस्विनींगांदत्वापञ्चगव्यंप्राश्यशुद्धशचुडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत् उपकल्पितबहुसंभारस्यन्निहितलग्नान्तराभावेननाशाद्यापत्तावप्येवं शुद्धिः इदंजननाशौचमात्रविषयमितिमार्तण्डादौ ।