२० चतुर्थीकर्ममध्येदर्शादिनिर्णयः

अथचतुर्थीकर्ममध्येदर्शादिनिर्णयः मौजीविवाहयोर्नान्दीश्राद्धमारभ्यमण्डपोद्वासनपर्यंतमध्येदर्शदिनंयथानपतेत्तथकार्यं दर्शान्यत्पित्रोः

क्षयाहादिश्राद्धदिनंयदिज्ञानादज्ञानाद्वापततितदात्रिपुरुषसपिंडैर्विवाहादिमंगलसमाप्त्युत्तरंश्राद्धंकार्यं

एवं चदर्शान्यश्राद्धस्यैवस्वरूपतोविवाहमध्येनिषेधः नतुदर्शवच्छ्राद्धरहितस्यापिश्राद्धतिथिमात्रस्य

वृत्तेविवाहेपरतस्तुकुर्याच्छ्राद्धमित्याद्युक्तेः एतेनसंक्रांतिमन्वाद्यष्टकादिदिनानांश्राद्धदिनत्वाद्दर्शवन्मध्येपातोनिषिद्ध इति शंकानिरस्ता

तेनषण्णवतिश्राद्धकर्तृभिःसपिंडैर्मध्यपतितमन्वादेःप्रायश्चित्तादिनासंपत्तिःसंपाद्या

इति चतुर्थीकर्ममध्येदर्शादिनिर्णयः ॥