१६ प्रतिकूलविचारः

विवाहनिश्चयोत्तरंवरस्यकन्यायावासगोत्रत्रिपुरुषात्मककुलेकस्यचिन्मरणेप्रतिकूलदोषः

विवाहनिश्चयश्चवैदिकोलौकिकोवा ग्राह्यः तत्रवैदिकोवाग्दानाख्यविधिनाकृतोमुख्यः

लौकिकोलग्नतिथिनिश्चयादिर्वरवध्वोःशुल्कभाशाबन्धपुगीफलदानादिश्चसगोत्रत्रिपुरुषेत्युक्त्या

मातामहकुलादिव्यावृत्तिः तथाच वरस्तत्पूर्वपत्नीवरमातापितरौवरपितामहपितामह्यावनूढापितृष्वसाचेतिपूर्वत्रिपुरुषी

वरस्तस्यभ्रातापत्नीपुत्रानूढकन्यासहितोवरस्यानूढाभगिनीवरस्यस्नुषापुत्रौ अनूढाकन्याचपौत्रस्तद्भार्याचानूढापौत्रीचेतिपरत्रिपुरुषी

पितृव्यतत्पत्न्यौपितृव्यपुत्रतत्पत्न्यावनूढापितृवकन्याचेतिसंतानभेदेत्रिपुरुषीचेतिसगोत्रत्रिपुरुषीपुरुषपरिगनन आ

एतेषामन्यतममरणेप्रतिकूलमितिपर्यवसितोर्थः अत्रभ्रातापुत्रपौत्रादिश्चानुपनीतोपित्रिवर्षाधिकवयाःग्राह्यः

एवमनूढभगिन्यादेरपित्रिवर्षाधिकत्वं युक्तंभाति एवं वधूकुलेप्यूह्यम् एवमेवमण्डनमुण्डनादावपित्रिपुरुषगणनोह्या ॥