अथान्येपिविवाहेनिषेधाः प्रत्युद्वाहोनैवकार्योनैकस्मैदुहितृद्वयम् । नचैकजन्योः पुंसोरेकजन्येतुकन्यके
१ अत्रापवादः सोदरयोः सोदरकन्यकेवत्सरादिकालव्यवधानेमहानद्यादिव्यवधानेवादये पूर्वकन्यायादत्तायाः
मृतौतस्यैववरस्यद्वितीयाकन्यादेया प्रत्युद्वाहोदारिद्र्यादिसंकटेकार्यः सोदराणांतुल्यसंस्कारोवर्षमध्येनिषिद्धः
गृहनिर्माणविवाहौवर्षान्तर्नकार्यौ गृहप्रवेशस्यनिषेधाभावाद्गृहप्रवेशोत्तरंविवाहःकार्यः
सोदरयोःपुत्रयोःकन्यापुत्रयोर्वाकन्ययोर्वाविवाहौषण्मासाभ्यन्तरेविशेषतोनिषिद्धौ पुरुषत्रयात्मककुले
विवाहान्मौञ्जीबन्धः षण्मासेनिषिद्धःषण्मासर्शुभंकायत्रयर्नकायम् अत्रशुभकार्यपदेनमौञ्जीविवाहावेव
तेनगर्भाधाननामकर्मादिसंस्काराणांनत्रित्वनिषेधःनवागर्भाधानादिनाचतुष्ट्वादिसंपादनम
नाग्निकार्यत्रयंभवेदित्यनेनैकवाक्यतालाघवादितिभाति भिन्नोदराणामग्निकार्यत्रयंनदोषायेतिकश्चित
केचिन्नकुर्यान्मंगलत्रयमित्यस्यभिन्नार्थत्वं स्वीकृत्ययत्किंचिच्छुभकार्याणामपित्रित्वं नशुभमित्याहुः
पुरुषोद्वाहात् स्त्र्पुद्वाहः पुरुषोद्वाहःषण्मासाभ्यन्तरेनिषिद्धः ज्येष्ठमङ्गलाल्लघुमङ्गलंनकार्यम् बहिर्मण्डपेविहितं
ज्येष्ठमङ्गलम् तद्भिन्नंलघु गर्भाधानादिकस्यप्राप्तकालस्यननिषेधः एवं शान्त्यादेरपिनैमित्तिकस्यप्राप्तकालस्य
ननिषेधः अतिपन्नस्यत्वयंनिषेधः
एवं व्रतोद्यापनादीनांवास्तुप्रवेशादीनांचलघुत्वादेवविवाहाद्युत्तरंनिषेधः इदंनिषेधचतुष्टयंत्रिपुरुषात्मककुलेषण्मासाभ्यन्तर एव
एवं मुण्डनद्वयनिषेधंव्रतबन्धाच्यौलनिषेधंचकेचिदाहुः ॥