१३ सगोत्रादिविवाहादौप्रायश्चित्तम्

अथसगोत्रादिविवाहादौप्रायश्चित्तम् तत्राज्ञानतःसगोत्रसप्रवरविवाहेकन्यांत्यक्त्वाचांद्रायणंप्रायश्चित्तंकार्यम्

ज्ञानतोद्विगुणम् एवं कन्याया एतदर्धम् एवं सपिण्डायाविवाहेपित्यागश्चब्राह्मण्याःसंभोगधर्मकार्ययोरेव

मातृवत्परिपालयेदित्यन्नादिनापालनोक्तेः यस्तुसगोत्रादिकांविवाह्योपगच्छतितस्याज्ञानेविवाहप्रयुक्तचान्द्रायणं

सगोत्रागमनप्रयुक्तांचान्द्रायणद्वयाधिकं ज्ञानतस्तु अधिकंकल्प्यमितिकेचित

अन्येतुगुरुतल्पव्रताच्छुद्ध्येदितिगुरुतल्पसाम्योक्तेःषडब्दंप्रायश्चित्तम् अज्ञानतस्त्रयब्दंचान्द्रायणत्रयंवेत्याहुः

अज्ञानतःसगोत्रादिषूत्पन्नानांजनकप्रायश्चित्तौत्तरंकाश्यपगोत्रेणव्यवहारःकार्योनतुत्यागः

ज्ञानतस्तुसगोत्राद्युत्पन्नानांचाण्डालत्वमेव आरूढपतितापत्यंब्राह्मण्यंयश्चशूद्रजः ।

सगोत्रोढासुतश्चैवचाण्डालास्त्रय ईरिताः १ इति यमस्मृतेः ॥