०६ कश्यपाः

अथ कश्यपाः ॥ तेत्रयः निध्रुवाः रेभाः शंडिलाश्चेति तत्र निध्रुवाःकश्यपाः अष्टांगिरसः

इत्यादयश्चत्वारिंशदधिकशतावरानिधुवास्तेषांकाश्यपावत्सारनैध्रुवेतित्रयः

निर्णयसिंधौतुनिध्रुवगणौत्तरंकश्यपगुनमुक्त्वाकश्यपानांकाश्यपावत्सारासितेतिहिप्रवरत्रयमुक्तं

अत्र शिष्टाचारोपिदृश्यते १ रेभाणांकाश्यपावत्साररैभ्येतित्रयः २ शंडिलाः कोहलाः उदमेधा इत्यादयः

षष्ट्यवराः शंडिलास्तेषांकाश्यपावत्सारशांडिल्येतित्रयः अंत्यस्थानेदेवलोवा असितोवा काश्यपासितदेवलेतिवा

अंत्ययोर्व्यत्ययोवा देवलासितेतिद्वौवा एषांकश्यपानांपरस्परमविवाहः सगोत्रवात्सप्रवरत्वाच्च ॥