०५ विश्वामित्राः

अथ विश्वामित्राः ॥ तेदश कुशिकाः लोहिताः रौक्षकाः कामकायनाः अजाःकताः धनजयाः

अघमर्षणाः पूरणाः इंद्रकौशिकाश्चेति कुशिकाः पर्णजंघाःवारक्या इत्यदियः

सप्तत्यधिकाःकुशिकास्तेषांविश्वामित्रदेवरातौदलेतित्रयः १ लोहिताःकुडक्याश्चाक्रवर्णायना इत्यादयः

पंचाधिका लोहिताः रोहिता इति केचित तेषांवैश्वामित्राष्टकलौहितेतित्रयः अंत्ययोर्व्यत्ययोवा

वैश्वामित्रमाधुच्छंदसाष्टकेतवा विश्वामित्राष्टकेतिद्वौवा २ रौक्षकाणांविश्वामित्रगाथिनरेवणेतित्रयः

विश्वामित्ररौक्षकरैवणेतिवा एतेरेवणावा ३ कामकायनाः देवश्रवसाः देवतरसा इत्यादयः पंचावराः कामकायनाः

श्रौमतावा तेषांवैश्वामित्रदेवश्रवसदैवतरसेतित्रयः ४ अजानांवैश्वामित्रमाधुच्छंदसाजेतित्रयः

५ कतः औदुंबरयः शैशिरयः इत्यादयोविंशत्यधिकाःकतास्तेषांवैश्वामित्रकात्याक्षीलेतित्रयः

६ धनंजयाः पार्थिवाः बंधुलाः इत्यादयःसप्तावराधनंजयास्तेषांवैश्वामित्रमाधुच्छंदसधानंजयेतित्रयः

वैश्वामित्रमाधुच्छंदसाघमर्षणेतिवा ७ अघमर्षणानांवैश्वामित्राघमर्षणकौशिकेतित्रयः

८ पूरणानां वैश्वामित्रपूरणेतिद्वौ वैश्वामित्रदेवरातपौरणेतिवा ९ इंद्रकौशिकानांवैश्वामित्रेंद्र कौशिकेतिद्वौ

१० क्वचिदन्येप्येकादशोक्ताः आष्मरथ्याः १ साहुलाः २ गाथिनाः ३ वैणयाः ४ हिरण्यरेतसः

५सुवर्णरेतसः ६ कपोतरेतसः ७ शालंकायनाः ८ घृतकौशिकाः ९ कथकाः १० रौहिणा इति

११ आश्मरथ्यानांवैश्वामित्राश्मरथ्यवाधुलेतित्रयः १ साहुलानांवैश्वामित्रसाहुलमाहुलेतित्रयः

२ गाथिनानांवैश्वामित्रगाथिनरैणवेतित्रयः ३ वेणुवेतिक्कचित्पाठः एतीवरेणव इति उदवेणव इति चोच्यंते

३ वैनवानांवैश्वामित्रगाथिनवैणवेति ४ हिरण्यरेतसां वैश्वामित्रहैरण्यरेतसेतिद्वौ

५ सुवर्णरेतसांवैश्वामित्रसौवर्णरेतसेतिद्वौ ६ कपोतरेतसांवैश्वामित्रकापोतरेतसेतिद्वौ

७ शालंकायनानांवैश्वामित्रशालंकायनकौशिकेतित्रयः एते एवकौशिका इति जन्हव इति चोच्यंते

८ घृतकौशिकानांवैश्वामित्रघृतकौशिकेतिद्वौ ९ कथकानांवैश्वामित्रकथकेति १० रौहिणानांवैश्वामित्रमाधुच्छंदसरौहिणेतित्रयः

११ वैश्वामित्रगणांनासर्वेषांपरस्परमविवाहःसगोत्रत्वात्सप्रवरत्वाच्च कुशिकानां

देवरातप्रवरसाम्येनदेवराताद्भेदानिर्णयाद्वक्ष्यमाण देवरातवदेवजामदग्न्यैरप्यविवाह इति भाति

धनंजयानांविश्वामित्रैरत्रिभिश्चविवाहः कतानांभरद्वाजैर्विश्वामित्रैश्चाविवाहः द्विगोत्रत्वात् इति विश्वामित्राः ॥