०३ केवलाङ्गिरसः

अथकेवलाङ्गिरसः तेचषट् हरिताः कुत्साः कण्वाः रथीतराः विष्णुवृद्धाः मुद्गलाश्चेति हरिताः सौभगाः

नैय्यगवा इत्यादयोद्वात्रिंशदधिकाहरितास्तेषामांगिरसांबरीषयौवनाश्वेति आद्योमान्धातावा

कुत्सानामांगिरसमांधात्रकौत्सेतित्रयः कण्वाः औपमर्कटाः बाष्कलायनः

इत्यादय एकविंशत्यधिकाःकण्वास्तेषामाङ्गिरसाजमीढकण्वेतित्रयः आङ्गिरसधौरकाण्वेतिवा

रथीतराःहस्तिदाःनैतिरक्षयः इत्यादयश्चतुर्दशाधिकारथीतरास्तेषामाङ्गिरसवैरूपरथीतरेतित्रयः

आंगिरसवैरूपपार्षदश्वेतिवा अष्टादंष्ट्रवैरूपपार्षदश्वेतिवा अन्त्ययोर्व्यत्ययोवा विष्णुवृद्धाः शठाः

भरणा इत्यादयः पञ्चविंशत्यधिकाविष्णुवृद्धास्तेषामांगिरसपौरुकत्स्यत्रासद्स्यवेतित्रयः मुद्गलाः

सात्यमुग्रियःहिरण्यस्तम्बयः इत्यादिका अष्टादशाधिकास्तेषामाङ्गिरसभार्म्याश्वमौद्गल्यैतित्रयः

आद्यस्तार्क्ष्योवा आंगिरसतार्क्ष्यमौद्गल्येतिवा एषांषण्णांकेवलांगिरसानांस्वस्वगणंहित्वापरस्परंपूर्वैश्चसर्वैर्विवाहोभवति

आंगिरसोगस्त्याष्टमसप्तर्षिभिन्नत्वेनतदपत्यानांसगोत्रत्वाभावात् द्वित्रिप्रवरसाम्याभावाच्च

हरितकुत्सयोस्तुनविवाहः पाक्षिकद्विप्रवरसाम्यात् ॥